तृतीयं मण्डलम् - सूक्तम् 51

12 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्रः छन्दः: जगती

सूक्तम् 3.51 - सम्पूर्णम्

1 / 12
ऋक्: 3.51.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
3.51.1
च॒र्ष॒णी॒धृतं᳚ म॒घवा᳚नमु॒क्थ्य१॒᳚मिन्द्रं॒ गिरो᳚ बृह॒तीर॒भ्य᳚नूषत ।
वा॒वृ॒धा॒नं पु᳚रुहू॒तं सु᳚वृ॒क्तिभि॒रम᳚र्त्यं॒ जर᳚माणं दि॒वेदि᳚वे ॥
▶ पदपाठः (Word-by-word)
च॒र्ष॒णि॒॑धृत᳚म् । म॒घ॑वा᳚नम् । उ॒क्थ्य᳚म् । इन्द्र᳚म् । गिरः᳚ । बृ॒ह॒तीः । अ॒भि । अ॒नू॒ष॒त॒ ।
व॒वृ॒धा॒नम् । पु॒रु॒॑हू॒तम् । सु॒वृ॒क्ति॑भिः᳚ । अम᳚र्त्यम् । जर᳚माणम् । दि॒वे॑दि᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहतीः प्रभूता गिरोऽस्मदीयाः स्तुतिलक्शणा वाचश्चर्षणीधृतं चर्षणीनां मनुष्याणामभिमतफलप्रदानेन धारकं पोषकम् । यद्वा । आकृषण्त्यनेन सर्वमिति चर्षणि बलं तद्धारकम् । मभवानं धनवन्तमुक्थ्यैमुक्थ्यैः शस्त्रैः संसनीयं वावृधानं बलधनादिसंपत्त्या प्रतिक्षनम् वर्धमानं पुरुहूतं स्तोतृभिर्बहुवारमाहूतममर्त्यं मरणधर्मरहितं सुवृक्तिभिः शोभनस्तुतिवाक्यैर्दिवे प्रत्यहं जरमाणम् स्तूयमानं तमिममिन्द्रमभ्यनूषत । अभितः सर्वतः स्तुवन्तु । बृहतीः । वा छन्दसीति सवर्णदीर्घः । अनूशत । णू स्तवने । अस्माल्लुङि सिच् । धातोः कुटादित्वात्सिचो ङित्त्वेन गुणाभावः । सुवृक्तिभिः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । यद्वा । सुवृक्तय इति स्तुतिकरण भूता ऋचो वृक्तिशब्देनोच्यन्ते । क्तिच् क्तौ चेति क्तिच् । क्रुत्स्वरेणान्तोदात्तः । दिवे दिवे । नित्यवीप्सयोरिति द्विर्वचनम् । परस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः ॥ १ ॥

3.51.2
श॒तक्र᳚तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो᳚ म॒ इन्द्र॒मुप᳚ यन्ति वि॒श्वतः᳚ ।
वा॒ज॒सनिं᳚ पू॒र्भिदं॒ तूर्णि᳚म॒प्तुरं᳚ धाम॒साच᳚मभि॒षाचं᳚ स्व॒र्विद᳚म् ॥
▶ पदपाठः (Word-by-word)
श॒त॑क्र᳚तुम् । अ॒र्ण॒वम् । शा॒किन᳚म् । नर᳚म् । गिरः᳚ । मे॒ । इन्द्र᳚म् । उप᳚ । य॒न्ति॒ । वि॒श्वतः᳚ ।
वा॒ज॒॑सनि᳚म् । पूः॒॑भिद᳚म् । तूर्णि᳚म् । अ॒प्॑तुर᳚म् । धा॒म॒॑साच᳚म् । अ॒भि॒॑साच᳚म् । स्वः॒॑विद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मे मदीया गिरः स्तुतिलक्षणा वाचः शक्रतुम् । शतं क्रतवो यज्ञा यस्यतम् । अर्णवं पर्जन्यात्मनोदकवन्तं शाकिनम् । शक्नोत्येभिरिन्द्र इति शाकाः । सहायभूता मरुतः । तद्वन्तम् । नरं सर्वस्य जगतो नेतारं वाजसनिं वाजस्यान्नस्य दातारं पूर्भिदं शत्रुपुरां भेत्तारं तूर्णिं युद्धं प्रति शीघ्रं गन्तारमप्तुरं मेघभेदनद्वारापां प्रेरकं धामसाचं तेजो भजमानम् । यद्वा धनं धाम । तदर्थिभिः सह योजयितारम् । अभिषाचं शत्रूणामभिभवितारं स्वर्विदं स्वर्गस्य सम्भकं तमिममिन्द्रं विश्वतः सर्वत उपयन्ति । उपगच्छन्तु । अर्णवम् । अर्णोऽस्यास्तीति मत्वर्थेऽर्णसः सलोपश्चेति वप्रत्ययः सकारलोपश्च । प्रत्ययस्वरः । नरम् । नयतेर्डिच्चेत्कृतप्रत्ययः । अमः सुप्त्वादनुदात्तत्वे प्रत्ययस्वरः । यन्ति । इण् गतावित्यस्य लटीणो यणिति यण् । निघातः । वाजसनिम् । षणु दाने । खनिकष्यन्ज्यसिवसीत्यादिना इप्रत्ययः । परादिश्छन्दसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तूर्णिम् । ञित्वरा सम्भ्रमे । वहिश्रीत्यादिना निप्रत्ययः । ज्वरत्वरेत्यादिना ऊट् । निदित्यतिदेशादाद्युदात्तः । अप्तुरम् । तुर त्वरणे । क्विप् । क्रुदुत्तरपदस्वरः । भिषाचम् । षच समवाये । ण्यन्तस्य क्विप् ॥ २ ॥

3.51.3 समानपद
आ॒क॒रे वसो᳚र्जरि॒ता प᳚नस्यते॑ने॒हस॒ः स्तुभ॒ इन्द्रो᳚ दुवस्यति ।
वि॒वस्व᳚त॒ः सद᳚न॒ आ हि पि᳚प्रि॒ये स᳚त्रा॒साह᳚मभिमाति॒हनं᳚ स्तुहि ॥
▶ पदपाठः (Word-by-word)
आ॒॑क॒रे । वसोः᳚ । ज॒रि॒ता । प॒न॒स्य॒ते॒ । अ॒ने॒हसः᳚ । स्तुभः᳚ । इन्द्रः᳚ । दु॒व॒स्य॒ति॒ ।
वि॒वस्व᳚तः । सद᳚ने । आ । हि । पि॒प्रि॒ये । स॒त्रा॒॑सह᳚म् । अ॒भि॒मा॒ति॒॑हन᳚म् । स्तु॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जरिता शतूर्णं जरयितेन्द्र आकरे । आकीर्यते यद्वार्थं धनमत्रेत्याकरो युद्धम् । तस्मिन्वसोर्धनस्य स्थानभूते युद्धे पनस्यते । सर्वैः स्तूयुते । तद्वा वसोः । वसत्याभिमुख्येन तिष्थतीति वसुः शत्रुस्तस्य जरयितेति योजनीयम् । स इन्द्रोऽनेहसोऽपापाः स्तुभः स्तुतीर्दुवस्यति । परिचरति । तासां फलं प्रयच्छन् पूजयतीत्यर्थः । किञ्च स इन्द्रो विवस्वतो विशेषाणाग्निहोत्रार्थं वसतो हविष्मतो वा यजमानस्य सदने गृह आ पिप्रिये हि । सोमपानादिनात्यन्तं प्रीतो भवति खलु । सत्रासाहं शत्रूणामेव हन्तारं यद्वा मरुद्भिः सह शत्रूणामभिभवितारम् अत एवाभिमातिहनं शत्रूणां हन्तारमिन्द्रं स्तुहि । हे विश्वामित्रेति । आकरे कॄ विक्षेपे । अधिकरण ऋदोरबित्यप् । थाथादिस्वरेणान्तोदात्तः । जरिता । जॄष् वयोहानावित्यस्यान्तर्भावितण्यर्थस्य तृचि रूपम् । चित्त्वादन्तोदात्तः । पनस्यते । पनस्यतिः स्तुतिकर्मा । तस्य कर्मणि लटि रूपम् । निघातः । अनेहसः । हन्तेर्नञ्यु पपदे नञि हन एह चेत्यसिप्रत्यय एह इत्ययं चादेशो धातोः । नञ् सुभ्यामिति स्वरेणान्तोदात्तः । स्तुभः । स्तोभतिरर्चतिकर्मा । क्विप् । दुवस्यति । दुवः परिचरणमात्मन इच्छतीत्यर्थे क्यच् । निघातः । पिप्रिये । प्रीङ् तर्पणी । लिटि रूपम् । हियोगादनिघातः ॥ ३ ॥

3.51.4
नृ॒णामु᳚ त्वा॒ नृत᳚मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम᳚र्चता स॒बाधः᳚ ।
सं सह᳚से पुरुमा॒यो जि᳚हीते॒ नमो᳚ अस्य प्र॒दिव॒ एक᳚ ईशे ॥
▶ पदपाठः (Word-by-word)
नृ॒णाम् । ऊं॒ इति᳚ । त्वा॒ । नृ॑त᳚मम् । गीः॒॑भिः । उ॒क्थैः । अ॒भि । प्र । वी॒रम् । अ॒र्च॒त॒ । स॒॑बाधः᳚ ।
सम् । सह᳚से । पु॒रु॒॑मा॒यः । जि॒ही॒ते॒ । नमः᳚ । अ॒स्य॒ । प्र॒॑दिवः᳚ । एकः᳚ । ई॒शे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सबाधः । रघोघ्नमन्त्रोच्चारनेन तद्विषयबाधया सह वर्तन्त इति सबाध ऋत्विजः । नृणां नृतमं मनुश्याणामतिशयेन स्वकर्मणि नेतारं वीरं सामर्थ्योपेतं त्वां गीर्भिः स्तुतिसाधनभूतैर्वाक्यैरुक्थ्यैः शस्त्रैश्चाभ्याभिमुख्येन प्रार्चत । प्रकर्षेणार्चन्ति । पुरुमायो वृत्रहननादिबहुकर्मा स इन्द्रः सहसे बलाय सं जिहीते । गमनोद्यमं करोति । किञ्च प्रदिवः पुरातन एकोऽसहायः स इन्द्रो नमो नमसोऽस्य हविर्लक्शणस्यान्नस्येशे । ईष्टे । यद्वा अस्य सर्वस्य जगत ईष्टे । तस्मा इन्द्राय नमः । नृणाम् । नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । अर्चत । अर्चतेर्लटि झेस्तादेशः तिङां ङो भवन्तीति वचनात् । सबाधः । बाधृविलोदने । क्विप् । वोपसर्जनस्येति सहस्य सत्वम् । कृदुत्तरपदस्वरः । पुरुमायः । अन्तोदात्तप्रकरणे त्रिचक्रादीनामुपसंख्यानमित्यन्तोदात्तत्वम् । ईशे । ईश ऐश्वर्य इत्यस्य लटि लोपस्त आत्मनेपदेष्विति तलोपः । निघातः ॥ ४ ॥

3.51.5
पू॒र्वीर᳚स्य नि॒ष्षिधो॒ मर्त्ये᳚षु पु॒रू वसू᳚नि पृथि॒वी बि᳚भर्ति ।
इन्द्रा᳚य॒ द्याव॒ ओष᳚धीरु॒तापो᳚ र॒यिं र᳚क्षन्ति जी॒रयो॒ वना᳚नि ॥
▶ पदपाठः (Word-by-word)
पू॒र्वीः । अ॒स्य॒ । निः॒॑सिधः᳚ । मर्त्ये᳚षु । पु॒रु । वसू᳚नि । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।
इन्द्रा᳚य । द्यावः᳚ । ओष᳚धीः । उ॒त । आपः᳚ । र॒यिम् । र॒क्ष॒न्ति॒ । जी॒रयः᳚ । वना᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्त्येषु मनुष्येष्वस्येन्द्रस्यनिष्षिधोनुशासनानि पूर्वीर्हितोपदेशादिभिः प्रभूतानि नानाप्रकाराणि भवन्ति । इन्द्रस्य शासितृत्वे मन्त्रः । उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिचे । ऋग्वे. १-१०-५ । इति तथा शासकाय तस्मा इन्द्राय पृथिवी पुरु पुरूणि बहूनि वसूनि धनानि बिभर्ति । अन्तर्धारयति । किञ्च द्यावो द्युलोका ओषधीरोषधय ऊ त अपि चापो जलानि जीरयः । जीर्यन्त इति जीरयो मनुष्या । वनानि वृक्षाश्च एते दर्व इन्द्रस्याज्ञया तदुपभोगयोग्यं रयिं धनं रक्षन्ति । निष्षिधः । षिधु गत्याम् । द् ्विप् । संहितायां निसः सकारेणेणो व्यवधानं छान्दसत्वादनादृत्योपसर्गात्सुनोतीत्यादिना षत्वम् । निसः सकारस्य ष्टुना षुरिति षत्वं ॥ ५ ॥

3.51.6 समानपद
तुभ्यं॒ ब्रह्मा᳚णि॒ गिर᳚ इन्द्र॒ तुभ्यं᳚ स॒त्रा द᳚धिरे हरिवो जु॒षस्व᳚ ।
बो॒ध्या॒३॒᳚पिरव᳚सो॒ नूत᳚नस्य॒ सखे᳚ वसो जरि॒तृभ्यो॒ वयो᳚ धाः ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । ब्रह्मा᳚णि । गिरः᳚ । इ॒न्द्र॒ । तुभ्य᳚म् । स॒त्रा । द॒धि॒रे॒ । ह॒रि॒॑वः॒ । जु॒षस्व᳚ ।
बो॒धि । आ॒पिः । अव᳚सः । नूत᳚नस्य । सखे᳚ । व॒सो॒ इति᳚ । ज॒रि॒तृ॑भ्यः᳚ । वयः᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरिवोऽश्ववन्निन्द्र तुभ्यं त्वदर्थं ब्रह्माणि स्तोत्राणि तथा तुभ्यं गिरः शास्त्राणि च सत्रा सत्यमेव दधिरे । ऋत्विजो धारयन्ति । तानि जुशस्व । सेवस्व । हे वसो सर्वस्य वासयितः सखे सखिभूत हे इन्द्र आपिर्व्याप्तस्त्वं नूतनस्य नवतरमवसोऽन्नलक्षणं हविर्बोधि । त्वदर्थं दीयमानं जानीहि । अतस्त्वं जरितृभ्यः स्तोतृभ्योऽस्मभ्यं वयोऽन्नंधाः । देहि । तुभ्यम् । ङयि चेत्याद्युदात्तत्वम् । जुषस्व । जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपम् । वाक्यभेदादनिघातः । गोधि । बुध अवगमन इत्यस्य लोटि वा छन्दसीति हेर्विकल्पेन ङित्त्वादत्र पित्त्वाद्गुणः । हुझल्भ्योहेर्धिरिति ध्यादेशः । ङित्त्वादन्तोदात्तः ॥ ६ ॥

3.51.7 समानपद
इन्द्र᳚ मरुत्व इ॒ह पा᳚हि॒ सोमं॒ यथा᳚ शार्या॒ते अपि᳚बः सु॒तस्य᳚ ।
तव॒ प्रणी᳚ती॒ तव᳚ शूर॒ शर्म॒न्ना वि᳚वासन्ति क॒वयः᳚ सुय॒ज्ञाः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम᳚म् । यथा᳚ । शा॒र्या॒ते । अपि᳚बः । सु॒तस्य᳚ ।
तव᳚ । प्र॑नी᳚ती । तव᳚ । शू॒र॒ । शर्म᳚न् । आ । वि॒वा॒स॒न्ति॒ । क॒वयः᳚ । सु॒॑य॒ज्ञाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुत्वो मरुद्भिस्तद्वन् हे इन्द्र त्वमिहास्मदीये यज्ञ आगत्य सोमं पाहि । पिब । यथा त्वं पूर्वं शार्याते शर्याते शर्यातेः पुत्रे तस्मिन्राजनि यज्ञं कुर्वाणे सुतस्याभिषुतं सोममपिबः तथात्रापि पिबेत्यर्थः । इन्द्रः शार्यातस्य यज्ञे सोमरसानपिबदित्येषोऽर्थः कौशीतके स्पष्टमुक्तः । तथा मन्त्रवर्णश्च । आस्मा रथं वृषपानेषु तिष्ठसि शार्यातस्य प्रभृता येशु मन्दसे । ऋग्वे. १-५१-१२ । इति । हे शुरेन्द्र तव संबन्धिनि शर्मन् शर्मणि निर्भाधस्थाने स्थिताः सुयज्ञाः सुष्ठुकृतयज्ञाः कवयो मेधाविनो यजमानाः प्रणिती तव हिविषां प्रणयनेन प्राअपणेन आ समन्ताद्विवासन्ति । त्वामेव परिचरन्ति । विवासतिः परिचरनकर्मा । शार्यते । शर्यातेरयमित्यर्थे तस्येदमित्यण् प्रत्ययः । अपिबः । यथायोगादनिघातः । अडागमस्वरः । प्रणीती । नयतेभार्वे क्तिन् । तादौ च निति कृतीति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति तृतीयायाः सवर्नदीर्घः । उपसर्गादसमासेऽपि णत्वं ॥ ७ ॥

3.51.8 समानपद
स वा᳚वशा॒न इ॒ह पा᳚हि॒ सोमं᳚ म॒रुद्भि᳚रिन्द्र॒ सखि᳚भिः सु॒तं नः᳚ ।
जा॒तं यत्त्वा॒ परि᳚ दे॒वा अभू᳚षन्म॒हे भरा᳚य पुरुहूत॒ विश्वे᳚ ॥
▶ पदपाठः (Word-by-word)
सः । वा॒व॒शा॒नः । इ॒ह । पा॒हि॒ । सोम᳚म् । म॒रुत्॑भिः᳚ । इ॒न्द्र॒ । सखि᳚॑भिः । सु॒तम् । नः॒ ।
जा॒तम् । यत् । त्वा॒ । परि᳚ । दे॒वाः । अभू᳚षन् । म॒हे । भरा᳚य । पु॒रु॒॑हू॒त॒ । विश्वे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वावशानः सोमं कामयमानः स तादृशस्त्वं सखिभिः समानख्यानैर्मरुद्भिः सह नोऽस्मत्संबन्धिनीहास्मिन्यज्ञे सुतमभिशुतं सोमं पाहि । पिब । हे पुरुहुत पुरुभिराहूतेन्द्र जतं पानेन प्रबलं सम्पन्नं यत् यं त्वां विश्वेसर्वे देवा महे महते भराय । ह्रियन्ते योधानामायूंष्यत्रेति भरः सङ्ग्रामः । तस्मै सङ्ग्रामाय पर्यभूषन् । सर्वतोऽलमकुर्वन् । वावशानः । वशेर्यङ् लुकि चानशि रूपम् । चित्त्वादन्तोदात्तः । अभूशन् । भूष अलङ्कारे । भूवादिः । लङि रूपम् । यद्योगादनिघातः । भराय । हृञ् हरणे । अधिकरणे घः । हृग्रहोर्भश्छन्दसिति हकारस्य भकारः । व्रुषादित्वादाद्युदात्तः ॥ ८ ॥

3.51.9
अ॒प्तूर्ये᳚ मरुत आ॒पिरे॒षो॑म᳚न्द॒न्निन्द्र॒मनु॒ दाति᳚वाराः ।
तेभि᳚ः सा॒कं पि᳚बतु वृत्रखा॒दः सु॒तं सोमं᳚ दा॒शुष॒ः स्वे स॒धस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒प्॑तूर्ये᳚ । म॒रु॒तः॒ । आ॒पिः । ए॒षः । अम᳚न्दन् । इन्द्र᳚म् । अनु᳚ । दाति᳚॑वाराः ।
तेभिः᳚ । सा॒कम् । पि॒ब॒तु॒ । वृ॒त्र॒॑खा॒दः । सु॒तम् । सोम᳚म् । दा॒शुषः᳚ । स्वे । स॒ध॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो य एष इन्द्रोऽप्तूर्येऽपां प्रेरन आपिर्युष्माकं सखासन् वर्तते दातिवाराः । वारो वरणीयं बलं धनं वा । दत्तबला दत्तधना वा ते मरुतस्तमिन्द्रमन्वमन्दन् । अहृष्यन् । वृत्रखादो वृत्रस्य हिंसकः स इन्द्रस्तेभिस्तैर्मरुद्भिः साकं दाशुषो हविर्दत्तवतो यजमानस्य स्वे स्वकीये सधस्थे । सह तिष्ठन्त्यस्मिन्निति सधस्थं गृहम् । तस्मिन् सुतमभिषुतं सोमं पिबतु । अप्तूर्ये । तूरी त्वराहिंसयोरित्यस्मादघ्न्यादयश्चेति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तः । समासे कृदुत्तरपदस्वरः । अमन्दन् । मदि स्तुत्यादिषु । परस्मैपदी । पादादित्वादनिघातः । वृत्रखादः । खादृ भक्षणे । कर्मण्यङ् । दाशुषः । दातृ दान इत्यस्य क्वसौ दाश्वान्साह्वान्शीढ्वांश्चेति द्विर्वचनाद्यभावः । वसोः सम्प्रसारणम् । प्रत्ययस्वरः । सधस्थे । सध मादस्थयोश्छन्दसीति सहस्य सधादेशः ॥ ९ ॥

3.51.10
इ॒दं ह्यन्वोज᳚सा सु॒तं रा᳚धानां पते ।
पिबा॒ त्व१॒᳚स्य गि᳚र्वणः ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । हि । अनु᳚ । ओज᳚सा । सु॒तम् । रा॒धा॒ना॒म् । प॒ते॒ ।
पिब᳚ । तु । अ॒स्य । गि॒र्व॒णः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राधानां पते धनानां स्वामिन् गिर्वणो गीर्भिः स्तुतिभिर्वननीय हे इन्द्र इदमनु अनेनानुक्रमेण । उद्देशानुक्रमेणेत्यर्थः । ओजसा बलेन ग्रावभिः सुतमभिषुतं सोमं तु क्शिप्रं पिब हि ॥ १० ॥

3.51.11
यस्ते॒ अनु᳚ स्व॒धामस᳚त्सु॒ते नि य᳚च्छ त॒न्व᳚म् ।
स त्वा᳚ ममत्तु सो॒म्यम् ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । अनु᳚ । स्व॒धाम् । अस᳚त् । सु॒ते । नि । य॒च्छ॒ । त॒न्व᳚म् ।
सः । त्वा॒ । म॒म॒त्तु॒ । सो॒म्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वदर्थं यः सोमः स्वधामन्नमनु अनुसृत्य ग्रावभिरभिषुतोऽसत् सुते तस्मिन् सोमे तन्वं स्वकीयं शरीरं नियच्छ । प्रेरय । स सोमः सोम्यं सोमार्हं त्वा त्वां ममत्तु । मादयातु । असत् । अस्तेर्लेट्यडागमे रूपम् । यद्वत्तयोगादनिघातः । आगमस्यानुदात्तत्वे धातुस्वरः ॥ ११ ॥

3.51.12
प्र ते᳚ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म᳚णा॒ शिरः᳚ ।
प्र बा॒हू शू᳚र॒ राध᳚से ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म᳚णा । शिरः᳚ ।
प्र । बा॒हू इति᳚ । शू॒र॒ । राध᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स सोमस्ते तव कुक्श्योः कुक्शेरुभयोः पार्श्वयोरुभौ पार्श्वौ प्राश्नोतु । प्रकर्शेण व्याप्नोतु । तथा ब्रह्मणा स्तोत्रेण सहितः स सोमः शिरः शरीरं अवयवादिनावयवी लक्ष्यते । त्वच्छरीरं प्राश्नोतु । हे शूर इन्द्र राधसे धनाय तव बाहू अपि प्राश्नोतु । अश्नोतु । अशू व्याप्तावित्यस्य लोति ब्यत्ययेन परस्मैपदम् । निघातः । कुक्ष्योः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ १२ ॥