अजू᳚र्यतो व॒ज्रिणो᳚ वी॒र्या॒३॒᳚णीन्द्र᳚ श्रु॒तस्य᳚ मह॒तो म॒हानि᳚ ॥
पदपाठः (Word-by-word)
अजू᳚र्यतः । व॒ज्रिणः᳚ । वी॒र्या᳚णि । इन्द्र᳚ । श्रु॒तस्य᳚ । म॒ह॒तः । म॒हानि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र युध्मस्य योधनशीलस्य वृशभस्याभिमतफलसेचकस्य स्वराजो धनाधिपतेरुग्रस्य समर्थस्य यूनो नित्यतरुणस्य स्थविरस्य चिरन्तनस्य घृष्वेः शत्रूणां संघर्षकस्याजूर्यतो जरारहितस्य वज्रिणः श्रुतस्य त्रिषु लोकेषु प्रसिद्धस्य अत एव महतस्ते तव वीर्याणि महानि । महान्ति खलु । युउध्मस्य । युध संप्रहारे । इषियुधीन्धिदसीत्यादिना मक्प्रत्ययः । यूनः । यौतेः कनिन्युवृषीत्यादिना कनिन् । श्वयुवमघोनामतद्धित इति संप्रसरनम् । नित्स्वरः । स्थविरस्य । अजिरशिशिरशिथिलेत्यादिना किरन्प्रत्ययान्तो निपातितः । घृष्वेः । घृषु संभर्षे । कृविघृश्विच्छवीत्यादिना किव्न्प्रत्ययान्तो निपात्यते । नित्त्वादाद्युदात्तः ॥ १ ॥