श्रवणम्

3.46.2
म॒हा{4} अ᳚सि महिष॒ वृष्ण्ये᳚भिर्धन॒स्पृदु᳚ग्र॒ सह᳚मानो अ॒न्यान् ।
एको॒ विश्व᳚स्य॒ भुव᳚नस्य॒ राजा॒ स यो॒धया᳚ च क्ष॒यया᳚ च॒ जना᳚न् ॥
▶ पदपाठः (Word-by-word)
म॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये᳚भिः । ध॒न॒॑स्पृत् । उ॒ग्र॒ । सह᳚मानः । अ॒न्यान् ।
एकः᳚ । विश्व᳚स्य । भुव᳚नस्य । राजा᳚ । सः । यो॒धया᳚ । च॒ । क्ष॒यय᳚ । च॒ । जना᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महिष महनीय उग्र इन्द्र त्वं महानसि । धनस्पृत् धनानि दानभोगत्यागैः पारं नयंस्त्वं वृष्ण्येभिर्वीरैरन्यान् । शत्रून्सहमानोऽभिभवन्वर्तसे । तत्या विश्वस्य सर्वस्य भुवनस्यैकोऽसहायो राजा स त्वं योधय च । सपत्नान् प्रहर । जनान् क्षयय च । निवासय । बाधकान्हत्वा साधुजनान् स्वस्थाने स्थापयेत्यभिप्रायः । महिश । मह पूजायाम् । अवमह्योष्टिषच् । उ. १-४६ । इति टिषच् प्रत्ययः । आमन्त्रितत्वान्निघातः । वृष्न्येभिः । वृष्णि भवानि भवे छन्दसीति यत् । यतोऽनाव इत्याद्युदात्तः । योधय । युध संप्रहार इत्यस्य ण्यन्तस्य लोटि रूपम् । चादिषु चेति न निघातः । णित्स्वरः । क्षयय । क्षिनिवासगत्योरित्यस्य ण्यन्तस्य लोटि रूपम् । अत्रापि पूर्वपदनिघातः । ॥ २ ॥