श्रवणम्

3.46.4
उ॒रुं ग᳚भी॒रं ज॒नुषा॒भ्यु१॒᳚ग्रं वि॒श्वव्य᳚चसमव॒तं म᳚ती॒नाम् ।
इन्द्रं॒ सोमा᳚सः प्र॒दिवि᳚ सु॒तासः᳚ समु॒द्रं न स्र॒वत॒ आ वि᳚शन्ति ॥
▶ पदपाठः (Word-by-word)
उ॒रुम् । ग॒भी॒रम् । ज॒नुषा᳚ । अ॒भि । उ॒ग्रम् । वि॒श्व॑व्य᳚चसम् । अ॒व॒तम् । म॒ती॒नाम् ।
इन्द्र᳚म् । सोमा᳚सः । प्र॒॑दिवि᳚ । सु॒तासः᳚ । स॒मु॒द्रम् । न । स्र॒वतः᳚ । आ । वि॒श॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उरुं महान्तं अत एव गभीरं महावकाशं जनुषा जन्मना स्वभावत एवोग्रं शत्रूणां भयङ्करम् । गभीरत्वमेवोच्यते । विश्वव्यचसं विश्वव्याप्तं मतीनां स्तुतीनां स्तोतॄणां वावतं रक्षकं तादृशमिन्द्रं प्रदिवि पूर्वेष्वहःसु सुतासो ग्रावभिरभिषुताः सोमासः सोमा अभि आभिमुख्येना विशंति । तत्र दृष्टान्तः । समुद्रं न । यथा स्रवतः स्रवन्त्यो नद्यः समुद्रमाविशम्ति तद्वत् । जनुषा । जनी प्रादुर्भाव इत्यस्माज्जनेरुसिरित्युसिप्रत्ययः । विश्वव्यचसम् । व्यच वाजीकरण इत्यस्मादसुन् । व्यचेः कुटादित्वमनसिति वक्तव्यमित्यत्रानसीति पर्युदासात् ङित्त्वाभावः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदस्यान्तोदात्तत्वम् । अवतु । अव रक्षणादिषु । औणादिकोऽतच् प्रत्ययः । चित्त्वादन्तोदात्तः ॥ ४ ॥