श्रवणम्

3.16.3
स त्वं नो᳚ रा॒यः शि᳚शीहि॒ मीढ्वो᳚ अग्ने सु॒वीर्य᳚स्य ।
तुवि᳚द्युम्न॒ वर्षि᳚ष्ठस्य प्र॒जाव᳚तो॑नमी॒वस्य᳚ शु॒ष्मिणः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । रा॒यः । शि॒शी॒हि॒ । मीढ्वः᳚ । अ॒ग्ने॒ । सु॒॑वीर्य᳚स्य ।
तुवि᳚॑द्युम्न । वर्षि᳚ष्ठस्य । प्र॒जा॑व᳚तः । अ॒न॒मी॒वस्य᳚ । शु॒ष्मिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स तथाविधस्त्वं नोऽस्मान्रायः । तृतीयार्थे षष्ठी । धनेन शिशीहि । तीक्ष्णान् कुरु । अस्मान्थनसमृद्धान्कुरु । किञ्च तुविद्युम्न बहुधनोपेत अत एव मीध्वो मीध्वन् कामानां सेक्तः हे अग्ने त्वं वर्षिठ्ठस्य वृद्धतमस्य प्रभूतस्य प्रजावतोऽपत्ययुक्तस्यानमीवस्यारोग्यहेतोरत एव शुष्मिणो बलहेतोः सुवीर्यस्य शोभनसामर्थ्ययुक्तस्यान्नस्य सम्बन्धिनोऽस्मान्कुरु । यद्वा । एतत्सर्वं विशेषणतया योजनीयम् । एताः शष्ठ्यस्तृतीयार्थे । एतदुक्तं भवति । धेनानापत्यारोग्यशरीरबलोपेतेनान्नेनास्मान्समृद्धान्कुर्विति ॥ शिशीहि । शिञ् निशान इत्यस्य लोटी बहुलं छन्दसीति विकरणस्य श्लुः । वा छन्दसीति विकल्पेन ङित्वादङितश्चेति हेर्धिरादेशो नभवति । दीर्घश्छान्दसः । निघातः । मीढ्वः । मिह सेचन इत्यस्य क्वसौ दाश्वान् साह्वान् मीध्वांश्चेति निपातनात् ढत्वं उपधादीर्घश्च । सम्बुद्धौ छन्दसीति रुः । पादादित्वादाद्युदात्तः ॥ ३ ॥