श्रवणम्

3.45.5
स्व॒युरि᳚न्द्र स्व॒राळ᳚सि॒ स्मद्दि᳚ष्टि॒ः स्वय᳚शस्तरः ।
स वा᳚वृधा॒न ओज᳚सा पुरुष्टुत॒ भवा᳚ नः सु॒श्रव᳚स्तमः ॥
▶ पदपाठः (Word-by-word)
स्व॒॑युः । इ॒न्द्र॒ । स्व॒॑राट् । अ॒सि॒ । स्मत्॑दि᳚ष्टिः । स्वय᳚शः॑तरः ।
सः । व॒वृ॒धा॒नः । ओज᳚सा । पु॒रु॒॑स्तु॒त॒ । भव᳚ । नः॒ । सु॒श्रवः᳚॑तमः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स्वयुर्धनवानसि । तथा स्वराट् स्वर्गस्य राजासि । स्मद्दिष्टिर्भद्रवाक्यः । स्वयशस्तरो‍ऽतिशयेन प्रभूतकीर्तिरसि । हे पुरुष्टुत बहुभिराहूतेन्द्र स त्वमोजसा बलेन वावृधानः वर्धमानः सन् नोऽस्मदर्थं सुश्रवस्तमोऽतिशयेन शोभनान्नोपेतो भव । स्वयुः स्वशब्दान्मत्वर्धीयो युः । स्वराट् । राजृ दीप्तौ । क्विप् । व्रश्चादिना षत्वम् । स्मद्दिष्टिः । स्मत् समदित्यर्थे । उकारलोपश्छान्दसः । बहुव्रीहौ पूर्वपदस्वरः । पुरुष्टुत । संहितायांस्तुतस्तोमयोश्छन्दसीतिषत्वम् । भव । भवतेर्लोटि रूपम् । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । सुश्रवस्तमः । श्रवः शब्दोऽनुनन्तः । बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । तदन्तादतिशायने तमप् । तस्य पित्त्वादनुदात्तत्वे बहुव्रीहि स्वरः ॥ ५ ॥