गिरो॒ यस्मि᳚न्ननव॒द्याः स᳚मी॒चीर्विश्वा॒ इन्द्रा᳚य॒ तवि᳚षी॒रनु᳚त्ताः ॥
पदपाठः (Word-by-word)
गिरः᳚ । यस्मि᳚न् । अ॒न॒व॒द्याः । स॒म्॑ई॒चीः । विश्वाः᳚ । इन्द्रा᳚य । तवि᳚षीः । अनु᳚त्ताः ॥
सायणभाष्यम् (Sayana Commentary)
मही महती धिषणास्माभिः क्रियमाणेन्द्रविषया स्तुती रोदस्योः शिश्नथे द्यावापृथिव्योरन्योन्यविश्लेषाय सद्योवृधं तदानीमेव वर्धमानं विभ्वं विभुं तयोर्धारणसमर्थं साधनं यदि धात् अकरोत् ततस्तत्र वर्तमाने यस्मिन्निन्द्रेऽनवद्या दोशरहिता गिरः स्तुतिलक्शणा वाचः समीचीः सङ्गता भवन्ति । इन्द्रायेति विभक्तिव्यत्ययः । तादृशस्येन्द्रस्य विश्वास्तविषीः सर्वाणि बल्लन्यनुत्ता अपरप्रेषितानि स्वभावसिद्धान्येव ॥ धिषणा । ञिधृषा प्रागल्भ्ये । धृषेर्धिश च संज्ञायामिति क्युप्रत्ययः । धातोर्धिशादेशः । धृष्णोत्यनयेति धिषणा स्ततिः । प्रत्ययस्वरः । शिश्नथे । श्नथ ज् िंसार्थः । अस्मात्क्विप् । छन्दस्युभयथेति तस्य सार्वधातुकत्वाच्छप् । तस्य बहुलं छन्दसीति श्लुः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । धातुस्वरः । धात् । दधातेश्छान्दसे लुङि रूपम् । यदियोगादनिघातः । विभ्वम् । भवतेः क्विप् । छन्दस्युभयथेति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । अनुत्ताः । णुद प्रेरण इत्यस्य नञ्पूर्वस्य निष्ठायां नसत्तनिशत्तानुत्तेत्यादिना निपातनान्निष्ठातकारस्य नत्वाभावः । नञः स्वरः ॥ १३ ॥