श्रवणम्

3.31.14 समानपद
मह्या ते᳚ स॒ख्यं व᳚श्मि श॒क्तीरा वृ᳚त्र॒घ्ने नि॒युतो᳚ यन्ति पू॒र्वीः ।
महि᳚ स्तो॒त्रमव॒ आग᳚न्म सू॒रेर॒स्माकं॒ सु म᳚घवन्बोधि गो॒पाः ॥
▶ पदपाठः (Word-by-word)
महि᳚ । आ । ते॒ । स॒ख्यम् । व॒श्मि॒ । श॒क्तीः । आ । वृ॒त्र॒॑घ्ने । नि॒॑युतः᳚ । य॒न्ति॒ । पू॒र्वीः ।
महि᳚ । स्तो॒त्रम् । अवः᳚ । आ । अ॒ग॒न्म॒ । सू॒रेः । अ॒स्माक᳚म् । सु । म॒घ॒॑व॒न् । बो॒धि॒ । गो॒पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव मही महत्सख्यमावश्मि । अकामये । शक्तीस्त्वत्सम्बन्धीनि दानानि चाकामये । वृत्रघ्ने वृत्रासुरस्य हन्त्रे तुभ्यं पूर्वीर्बह्ट्यो नियुतोवडवा आयन्ति । वहनार्थमागच्छन्ति । सूरेर्विदुषस्तव महि महत् स्तोत्रमवो हविर्लक्षणमन्नं चागन्म । प्रापयामः । हे मघवन्निन्द्र तादृशस्त्वमस्माकं सु सुश्ठु गोपाः पालयिता भवामीति बोधि । बुध्यस्व ॥ सख्यम् । सख्युर्य इति भावार्थे य प्रत्ययः । प्रत्ययस्वरः । वश्मि । वश कान्तौ । लटि रूपम् । नियुतः । यु मिश्रणे । क्विप् । नितरां युवन्ति मिश्रयन्त्यात्मानं रथेष्विति नियुतो वडवाः । आगन्म । गमेर्लङ्युत्तमबहुवचने बहुलं छन्दसीति शपो लुक् । म्वोश्चेति मकारस्य नकारः । निघातः । बोधि । बुधेर्लोटि हेर्धौ रूपम् । निघातः । गोपाः । गुपू रक्षणे । गपूधूपेत्यादिना आयप्रत्ययः । तदन्तात् क्विप् । आतोलोपयलोपौ । प्रत्ययस्वरः ॥ १४ ॥