श्रवणम्

3.31.7
अग᳚च्छदु॒ विप्र᳚तमः सखी॒यन्नसू᳚दयत्सु॒कृते॒ गर्भ॒मद्रि᳚ः ।
स॒सान॒ मर्यो॒ युव᳚भिर्मख॒स्यन्नथा᳚भव॒दङ्गि᳚राः स॒द्यो अर्च᳚न् ॥
▶ पदपाठः (Word-by-word)
अग᳚च्छत् । ऊं॒ इति᳚ । विप्र᳚॑तमः । स॒खि॒॑यन् । असू᳚दयत् । सु॒॑कृते᳚ । गर्भ᳚म् । अद्रिः᳚ ।
स॒सान᳚ । मर्यः᳚ । युव᳚॑भिः । म॒ख॒स्यन् । अथ᳚ । अ॒भ॒व॒त् । अङ्गि᳚राः । स॒द्यः । अर्च᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रतमोऽतिशयेन मेधावी श्खीयन् अङिरसोभिः साकमात्मनः सखित्वमिच्छन् इन्द्रोऽगच्छत् । गोभिरधिष्ठितं पर्वतमगमदेव । सोऽद्रिः सखित्वमिच्छन् सुकृते सुष्ठु युद्धकर्त्र इन्द्राय गर्भं गवात्मकं गर्भमसूदयत् । निरगमयत् । युवभिर्नित्यतरुणैमरुद्भिः सह मखस्यन् गोधनमङ्गीरसामिच्छन् मर्योऽसुराणां मारयितेन्द्रः ससान । असुरैरपहृतास्ता गा भेजे । अथानन्तरमङ्गिराः सप्तानामङ्गिरसां मध्ये वरिष्ठोङ्गिरा ऋषिरिन्द्रात्ता गा लब्ध्वा सद्यस्तदानीमेवार्चन् इन्द्रं पूजयन्नभवत् । आगच्छत् । गमेर्लङि रूपम् । सखीयन् । सुपः आत्मनः क्यच् । असूदयत् । षूद निरास इत्यस्य ण्यंशस्य लङि रूपम् । ससान । षण सम्भक्ता वित्यस्य लिटि णलि रूपम् । लित्स्वरः । व खस्यन् । छन्दसि परेच्छायामिति परेच्छायामपि क्यच् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्य इति सुगामः । एकादेशस्वरः । अङ्गिराः । सृ गतौ । अङ्गारशब्द उपपदे सर्तेर्धातोरसुन्प्रत्ययः । उपपदे गकारात्परस्येत्वमन्त्यलोपश्च धातोर्लोपश्च अङ्गिराः । उ. ४-२३५ । इति सूत्रेण नोपात्यते । भुतकालेऽङ्गारेभ्यः सृत इत्यङ्गिरा ऋषिः । अङ्गारेष्वङ्गिरा इति यास्कः । नित्स्वरः ॥ ७ ॥