श्रवणम्

3.53.4
जा॒येदस्तं᳚ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा᳚ यु॒क्ता हर᳚यो वहन्तु ।
य॒दा क॒दा च᳚ सु॒नवा᳚म॒ सोम᳚म॒ग्निष्ट्वा᳚ दू॒तो ध᳚न्वा॒त्यच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
जा॒या । इत् । अस्त᳚म् । म॒घ॒॑व॒न् । सा । इत् । ऊं॒ इति᳚ । योनिः᳚ । तत् । इत् । त्वा॒ । यु॒क्ताः । हर᳚यः । व॒ह॒न्तु॒ ।
य॒दा । क॒दा । च॒ । सु॒नवा᳚म । सोम᳚म् । अ॒ग्निः । त्वा॒ । दू॒तः । ध॒न्वा॒ति॒ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन्धनवन्निन्द्र अस्तम् । अस्यन्ते क्षिप्यन्ते पदार्था आत्रेत्यस्तं गृहम् । जायेज्जायैव गृहं भवति । न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यत इति स्मृतेः । तथा सेत् सा जायैव योनिः पुरुषस्य मिश्रणस्थानम् । उ प्रसिद्ध्यर्थः । तस्मात्तदित् तत्र गृह एव युक्ता रथे योजिता हरयोऽश्वास्त्वा त्वां वहन्तु । वयं तु यदा कदा च त्वदर्थं सोमं सुनवाम अभिषुतं करवाम तदास्माभिः प्रहितो दूतोऽग्निस्त्वा त्वामच्छाभिमुख्येन धन्वाति । गच्छेत् । अस्तम् । असु क्षेपणे । असिहसिमृग्रिण्वामित्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तः । सुनावाम । षुञ् अभिषव इत्यस्य लोटि रूपम् । यद्वृत्तयोगादनिघातः । त्वा । युष्मत्तत्ततक्शुः ष्वन्तः पादमिति संहितायां षत्वम् । धन्वाति । धवि गत्यर्थः । लेट्याडागमे रूपम् । निघातः ॥ ४ ॥