श्रवणम्

3.8.5
जा॒तो जा᳚यते सुदिन॒त्वे अह्नां᳚ सम॒र्य आ वि॒दथे॒ वर्ध᳚मानः ।
पु॒नन्ति॒ धीरा᳚ अ॒पसो᳚ मनी॒षा दे᳚व॒या विप्र॒ उदि᳚यर्ति॒ वाच᳚म् ॥
▶ पदपाठः (Word-by-word)
जा॒तः । जा॒य॒ते॒ । सु॒दि॒न॒॑त्वे । अह्ना᳚म् । स॒॑म॒र्ये । आ । वि॒दथे᳚ । वर्ध᳚मानः ।
पु॒नन्ति᳚ । धीराः᳚ । अ॒पसः᳚ । म॒नी॒षा । दे॒व॒॑याः । विप्रः᳚ । उत् । इ॒य॒र्ति॒ । वाच᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातः पृथिव्यां प्रथमुमुत्पन्नो यूपः समर्ये । मर्य इति मनुष्यनाम । तैः सहिते विदथे वर्धमानः । विदथ इति यज्ञनाम विदथः सवनमिति यज्ञ नामसु पाठात् । तस्मिन्यज्ञ आ वर्धमानो घृतान्जनरशनापरिव्ययणादिना सर्वतः शोभमानः सन् आह्नां सुदिनत्वे जायते । पशुनियोजनादिद्वारेण यज्ञ निर्वाहकतयाहानि सुदिनानि करोतीत्यर्थः । आपसः कर्मवन्तो धीराः सुप्रज्ञा आध्वर्य्वादयो मनिषा बुद्ध्या तं यूपं पुनन्ति । प्रक्षलनादिभिः शोधयन्ति । देवया देवानां यष्टा देवानां हवीषि प्रापयिता वा विप्रो मेधावी होता च वाचं यूपविषयां स्तुतिलक्षणां वाचमुदियर्ति । प्रेरयति । उच्चारयतीत्यर्थः । उक्तार्थे ब्राह्मणम् । जातो जायते सुदिनत्वे अह्नामिति जातो ह्येष एतज्जायते समर्य आ विदथे वर्धमान इति वर्धयन्त्येवैनं तत्पुनन्ति धीरा अपसो मनीषेति पुनन्त्येवैनं तद्देवया विप्र उदियर्ति वाचमिति देवेभ्य एवैनं तन्निवेदयति । ऐ. ब्रा. २-२ ॥ सुदिनत्वे । सुदिनानां भावे इति तस्य भावस्त्वतलाविति त्वः । प्रत्ययस्वरः । समर्ये । मृङ् प्राणत्याग इत्यस्माच्छन्दसि निष्टर्क्येति क्यप्रत्ययान्तत्वेन निपातनाद्गुणः । समासस्येत्यन्तोदात्तत्वम् । पुनन्ति । पूञ् पवने । क्र्यादित्वाच्छ्ना । स्वादित्वाद्ध्रस्वः । प्रत्ययस्वरः । देवयाः । या प्रापणे । आतो मनिन्निति विच् प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । इयर्ति । ऋ गतौ । जुहोत्यादिः । अभ्यासस्यार्तिपिपर्त्योश्चेतीत्वम् । अभ्यासस्यासवर्ण इतीयजादेशः । निघातः ॥ ५ ॥