श्रवणम्

3.58.9
अश्वि᳚ना मधु॒षुत्त᳚मो यु॒वाकु॒ः सोम॒स्तं पा᳚त॒मा ग᳚तं दुरो॒णे ।
रथो᳚ ह वां॒ भूरि॒ वर्प॒ः करि᳚क्रत्सु॒ताव᳚तो निष्कृ॒तमाग᳚मिष्ठः ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । म॒धु॒सुत्॑त᳚मः । यु॒वाकुः᳚ । सोमः᳚ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे ।
रथः᳚ । ह॒ । वा॒म् । भूरि᳚ । वर्पः᳚ । करि᳚क्रत् । सु॒त॑व᳚तः । निः॒॑कृ॒तम् । आ॑ग᳚मिष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ यः सोमो मधुषुत्तमो मधुरसमत्यन्तं प्रेरय्यन्युवातुयुवां कामयमानो वर्तते । यद्वा । युवाकुर्वसतीवरी प्रभृतिभिर्मिश्रित इत्यर्थः । तमिमं सोमं पातम् । पिबतम् । दुरोणेऽस्माकं गृह आ गतम् । आगच्छतम् । भूरि प्रभूतं वर्पो वारकं तेजः रूपं वा सर्वैर्वरणीयं धनं वा करिक्रत्पुनः पुनः कुर्वन्वां युवयो रथः सुतवतः सोममभिषुतवतो यजमानस्य निष्कृतम् । निरित्येष समित्येतस्य स्थाने । नि. १२-७ । इति यास्कः । संस्कारि । यद्वा । संस्कृतं गृहमागमिष्ठोऽतिशयेनागच्छन् भवति । युवाकुः । यौतेः कटिकुषिभ्यां काकुरिति बाहुलकादस्मादपि भवति । प्रत्ययस्वरेण मध्योदात्तः । करिक्रत् । करोतेर्यङ्लुकि शतरि दाधर्ति दर्धति दर्धर्षीत्यादिना चुत्वाभावे यणादेशे कृतेऽङ्गस्यानृकारान्तत्वादभ्यासस्य रिगागमो न प्राप्नोतीति सोऽपि निपात्यते । अभ्यस्तस्वरः । निष्कृतम् । करोतेरादिकर्मणि क्तः । संस्कर्तुं प्रवृश्त इत्यर्थः । थाथादिस्वरः ॥ ९ ॥