श्रवणम्

3.35.5
मा ते॒ हरी॒ वृष᳚णा वी॒तपृ᳚ष्ठा॒ नि री᳚रम॒न्यज᳚मानासो अ॒न्ये ।
अ॒त्याया᳚हि॒ शश्व᳚तो व॒यं ते॑रं᳚ सु॒तेभि᳚ः कृणवाम॒ सोमै᳚ः ॥
▶ पदपाठः (Word-by-word)
मा । ते॒ । हरी॒ इति᳚ । वृष᳚णा । वी॒त॑पृ᳚ष्ठा । नि । री॒र॒म॒न् । यज᳚मानासः । अ॒न्ये ।
अ॒ति॒॑आया᳚हि । शश्व᳚तः । व॒यम् । ते॒ । अर᳚म् । सु॒तेभिः᳚ । कृ॒ण॒वा॒म॒ । सोमैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृषणा कामानां सेचकौ वीतपृष्ठा कमनीयपृष्ठभागौ ते तव हरी अन्ये अस्मदन्ये यजमानासो यजमाना मा नि रीरमन् । मा हर्षयन् । वयं तु सुतेभिरभिषुतैः सोमैस्ते तवारं पर्याप्तं कृणवाम । यथा तव तृप्तिर्भवति तथा कुर्म इत्यर्थः । त्वं तु अत्यायाहि शश्वतः । बहूनन्यानतिक्रम्य सोमपानार्थं शीघर्मागच्छ । वितपृष्ठा । वी कान्त्यादिषु । अस्मात्त्कप्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरः । रीरमन् । रमु क्रीडायामित्यस्य ण्यन्तस्य लुङि चङि रूपम् । न माङ्योग इत्यडभावः । निघातः । अत्यायाहि । यातेर्लोटि रूपम् । गतिर्गताविति पूर्वस्य निघातः । कृणवाम । कृणोतेर्लोटि रूपम् । निघातः ॥ ५ ॥