स॒जोषा᳚ इन्द्र॒ सग᳚णो म॒रुद्भि॒ः सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ।
ज॒हि शत्रू{4}॒रप॒ मृधो᳚ नुद॒स्वाथाभ᳚यं कृणुहि वि॒श्वतो᳚ नः ॥
ज॒हि शत्रू{4}॒रप॒ मृधो᳚ नुद॒स्वाथाभ᳚यं कृणुहि वि॒श्वतो᳚ नः ॥
पदपाठः (Word-by-word)
स॒॑जोषाः᳚ । इ॒न्द्र॒ । स॑ग᳚णः । म॒रुत्॑भिः᳚ । सोम᳚म् । पि॒ब॒ । वृ॒त्र॒॑हा । शू॒र॒ । वि॒द्वान् ।
ज॒हि । शत्रू᳚न् । अप᳚ । मृधः᳚ । नु॒द॒स्व॒ । अथ᳚ । अभ᳚यम् । कृ॒णु॒हि॒ । वि॒श्वतः᳚ । नः॒ ॥
ज॒हि । शत्रू᳚न् । अप᳚ । मृधः᳚ । नु॒द॒स्व॒ । अथ᳚ । अभ᳚यम् । कृ॒णु॒हि॒ । वि॒श्वतः᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
उत पै च हे ऋतुपाः कालनिर्वाहकतया ऋतूनां पातः । ऋतुषु सोमं पिबतीति वा ऋतुपाः । यद्वा ऋतुभिर्मरुद्भिः सह सोमं पिबतीति ऋतुपाः । तादृश हे इन्द्र सखिभिः समानख्यानैऋतुभिर्मरुद्भिर्देवेभिर्देवैः सहितस्त्वं नः सम्बन्धिनं सुतमभिषुतं सोमं पाहि । पिब । किञ्च यान्मरुत आभजोयुद्धसहायार्थमसेवथा ये च मरुतस्त्वा त्वां युद्धे स्वामिनमन्वभजन्त । ततस्त्वं वृत्रमहन् । हतवानसि । ते मरुतस्तुइभ्यं त्वदर्थमोजो युद्धे शत्रुहननादिरुपं पराक्रममदधुः । अकुर्वन् । अभजः । भज सेवायामित्यस्य लङि रूपम् । यद्वृत्तयोगादिनिघातः । अहन् । हन हिम्सागत्योरित्यस्य लङि सिपो हल्ङ्यादिना लोपः । पादादित्वादनिघातः । अदधुः । दधातेर्लङि झेः सिजभ्यस्तेति जुस् । वाक्यभेदादनिघातः ॥ २ ॥