श्रवणम्

3.57.5
या ते᳚ जि॒ह्वा मधु᳚मती सुमे॒धा अग्ने᳚ दे॒वेषू॒च्यत᳚ उरू॒ची ।
तये॒ह विश्वा{4}॒ अव᳚से॒ यज᳚त्रा॒ना सा᳚दय पा॒यया᳚ चा॒ मधू᳚नि ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । जि॒ह्वा । मधु᳚॑मती । सु॒॑मे॒धाः । अग्ने᳚ । दे॒वेषु᳚ । उ॒च्यते᳚ । उ॒रू॒ची ।
तया᳚ । इ॒ह । विश्वा᳚न् । अव᳚से । यज᳚त्रान् । आ । सा॒द॒य॒ । पा॒यय᳚ । च॒ । मधू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव मधुमत्युदकवती सुमेधाः । शोभना मेधा प्रज्ञा यस्याः सा । सर्वस्य ज्ञापयित्री या जिह्वा ज्वालारूची बहुव्याप्तिः सती देवेषु मध्य आह्वानार्थमुच्यते प्रेर्यते तया जिह्वया यजत्रान्यजनीयान्विश्वानेवानिहकर्मण्यस्माकमवसे रक्षणाया सादय । उपवेशय । किञ्च तान्विश्वान्देवान्मधूनिमदकरान् सोमान्पायय । सुमेधाः । नित्यमसिच् प्रजामेधयोरित्यसिच् । उच्यते । वच परिभाषणे । कर्मणि यकि रूपम् । यद्वृत्तयोगादनिघातः । उरूची अञ्चतेः क्विन् । अञ्चतेश्चोपसंख्यानमिति ङीप् । अनुदात्तस्य च यत्रोदात्तलोप इति ङीप उदात्तत्वम् । पायय । पा पान इत्यस्य णौ परतः शाच्छासाह्वावावेषां युगिति युक् । तिङ उत्तरत्वादनिघातः ॥ ५ ॥