श्रवणम्

3.57.6
या ते᳚ अग्ने॒ पर्व᳚तस्येव॒ धारास᳚श्चन्ती पी॒पय᳚द्देव चि॒त्रा ।
ताम॒स्मभ्यं॒ प्रम᳚तिं जातवेदो॒ वसो॒ रास्व᳚ सुम॒तिं वि॒श्वज᳚न्याम् ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । अ॒ग्ने॒ । पर्व᳚तस्य॑इव । धारा᳚ । अस᳚श्चन्ती । पी॒पय᳚त् । दे॒व॒ । चि॒त्रा ।
ताम् । अ॒स्मभ्य᳚म् । प्र॑म᳚तिम् । जा॒त॒॑वे॒दः॒ । वसो॒ इति᳚ । रास्व᳚ । सु॒॑म॒तिम् । वि॒श्व॑ज᳚न्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देव दीप्यमान हे अग्ने चित्रा नानारूपासश्चन्त्यस्मदन्यत्र सङ्गतिमकुर्वाणा या ते तव प्रमतिः प्रकृष्टा बुद्धिः पीपयत् अपेक्षितफलदानेनास्मान्वर्धयति । तत्र द्रुष्टान्तः । पर्वतस्येव धारा । यथा पर्वतस्य मेघस्योदकधारौषधिवनस्पत्यादिशु सङ्गतिं कुर्वाणा तान्वर्धयति तद्वत् । वसो सर्वस्य वासयितर्जातवेदो जातप्रज्ञ हे अग्ने तां प्रमतिं परहितकरणसमर्थां बुद्धिमस्मभ्यं रास्व । दत्स्व । तथा विश्वजन्यां सर्वजनहितां सुमतिं शोभनां बुद्धिं दत्स्व ॥ असश्चन्ति । सश्चतिर्गतिकर्मा । शतर्युगितश्चेति ङीप् । नञा समासे नञ्स्वरः । पीपयत् । पा पाने । ण्यन्तस्य लुङि चङे रूपम् । चङ्यन्यतरस्यामिति चङे परतः पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । प्रमतिम् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । रास्व । रा दाने । व्यत्ययेनात्मनेपदम् । लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वान्निघाताभावः ॥ ६ ॥