श्रवणम्

3.6.4
म॒हान्त्स॒धस्थे᳚ ध्रु॒व आ निष᳚त्तो॒॑न्तर्द्यावा॒ माहि᳚ने॒ हर्य᳚माणः ।
आस्क्रे᳚ स॒पत्नी᳚ अ॒जरे॒ अमृ᳚क्ते सब॒र्दुघे᳚ उरुगा॒यस्य᳚ धे॒नू ॥
▶ पदपाठः (Word-by-word)
म॒हान् । स॒ध॑स्थे᳚ । ध्रु॒वः । आ । नि॑स᳚त्तः । अ॒न्तः । द्यावा᳚ । माहि᳚ने॒ इति᳚ । हर्य᳚माणः ।
आस्क्रे॒ इति᳚ । स॒पत्नी॒ इति᳚ स॒॑पत्नी᳚ । अ॒जरे॒ इति᳚ । अमृ᳚क्ते॒ इति᳚ । स॒ब॒र्दुघे॒ इति᳚ स॒बः॒॑दुघे᳚ । उ॒रु॒॑गा॒यस्य᳚ । धे॒नू इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महान् अधिकोहर्यमाणः यजमानादिभिः काम्यमानः यद्वा यजमानायधनंकामयमानः अग्निः द्यावान्तर्भूम्योर्मध्ये माहिनेमहिम्नायुक्ते सधस्थेस्वकीयेस्थाने ध्रुवःअचलःसन् आनिषत्तः निषण्णो भवति आस्केआक्रमणशीले सपत्नी समानःएकःसूर्यः पतिर्ययोस्तेसपत्न्यौ अजरेजरारहिते अमृते अन्येनाहिंसिते सबर्दुघे सबरित्यम्रुतमुदकं तस्यदोग्ध्र्यौ द्यावापृथिव्यौ उरुगायस्यपृथुगमनस्य अधिकस्तुतेर्वाअग्नेः धेनूप्रीणयित्र्यौभवतः ॥ ४ ॥