श्रवणम्

3.6.7
दि॒वश्चि॒दा ते᳚ रुचयन्त रो॒का उ॒षो वि᳚भा॒तीरनु᳚ भासि पू॒र्वीः ।
अ॒पो यद᳚ग्न उ॒शध॒ग्वने᳚षु॒ होतु᳚र्म॒न्द्रस्य᳚ प॒नय᳚न्त दे॒वाः ॥
▶ पदपाठः (Word-by-word)
दि॒वः । चि॒त् । आ । ते॒ । रु॒च॒य॒न्त॒ । रो॒काः । उ॒षः । वि॒॑भा॒तीः । अनु᳚ । भा॒सि॒ । पू॒र्वीः ।
अ॒पः । यत् । अ॒ग्ने॒ । उ॒शध᳚क् । वने᳚षु । होतुः᳚ । म॒न्द्रस्य᳚ । प॒नय᳚न्त । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने यत् यदा वनेषुअरण्येषु अपःउशधक् कामयमानोदहंश्चवर्तसे तदातेरोकाः त्वदीया दीप्तयः दिवश्चित् सूर्यादपि आरुचयन्त आरोचन्ते विभातीः विशेषेणभातीः प्रकाशमानाः पूर्वीःपुराणीः उषःउषसः अनुभासि मन्द्रस्यस्तुत्यस्य होतुःतवरोकान् देवाःस्तोतारः पनयन्त स्तुवन्ति ॥ ७ ॥