श्रवणम्

3.6.8
उ॒रौ वा॒ ये अ॒न्तरि᳚क्षे॒ मद᳚न्ति दि॒वो वा॒ ये रो᳚च॒ने सन्ति᳚ दे॒वाः ।
ऊमा᳚ वा॒ ये सु॒हवा᳚सो॒ यज᳚त्रा आयेमि॒रे र॒थ्यो᳚ अग्ने॒ अश्वा᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒रौ । वा॒ । ये । अ॒न्तरि᳚क्षे । मद᳚न्ति । दि॒वः । वा॒ । ये । रो॒च॒ने । सन्ति᳚ । दे॒वाः ।
ऊमाः᳚ । वा॒ । ये । सु॒॑हवा᳚सः । यज᳚त्राः । आ॒॑ये॒मि॒रे । र॒थ्यः᳚ । अ॒ग्ने॒ । अश्वाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उरौविस्तीर्णे अन्तरिक्षे येदेवामदंति हृष्यन्ति दिवःसूर्यस्य रोचनेप्रकाशने आलोके ये देवाः सन्ति ऊमाः ऊमसंज्ञकाः पितरः सन्ति यजत्राः यष्टव्यायेदेवाः सुहवासः शोभनाह्वानाः आयेमिरे आयच्छन्ति रथ्यःरथिनः तव ये अश्वाःसन्ति हेअग्ने तैःसर्वैःसार्धं आयाहीतिउत्तरयर्चा संबन्धः वात्रयः पूरणाः ॥ ८ ॥