त्वष्टा᳚र॒मिन्द्रो᳚ ज॒नुषा᳚भि॒भूया॒मुष्या॒ सोम᳚मपिबच्च॒मूषु᳚ ॥
पदपाठः (Word-by-word)
त्वष्टा᳚रम् । इन्द्रः᳚ । ज॒नुषा᳚ । अ॒भि॒॑भूय᳚ । आ॒॑मुष्य᳚ । सोम᳚म् । अ॒पि॒ब॒त् । च॒मूषु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
य एष इन्द्र उग्रः शत्रूणां भयङ्करस्तुराषाट् त्वरया शत्रूणामभिभविता अत एवाभिभूत्योजाः शत्रूणामभिभवनपराक्रमोपेतः सन् तन्वमात्मीयं शरीरं यथावशं यथाकामं नानाविधरूपोपेतं चक्रे । तथा च मन्त्रवर्णः । रूपं रूपं मघवा बोभवीति । ऋग्वे. ३-५३-८ । इति स इन्द्रो जनुषा जन्मना सामर्थ्येन त्वष्टारं त्वष्टृनामकमसुरमभिभूय चमूषु चमसेषु स्थितमामुष्य चोरयित्वा सोममपिबत् । त्वष्टा हतपुत्रो वीन्द्रमित्यादि प्रासहा सोममपिबत् । तै. सं. २-४-१२ । इति तैत्तिरीयकम् । तुराषाट् । ञित्वरा सम्भ्रमे । क्विप् । ज्वरत्वरेत्यादिना ऊट् । सहेश्चन्दसि सह इति ण्विः । कर्तृकरणे कृता बहुलमिति समासः । तत्पुरुषे कृति बहुलमिति तृतीयाया अलुक् । सहेः साडः स इति षत्वम् । कृदुत्तरपदस्वरः । यथावशम् । वशं काममनतिक्रम्येत्यव्ययीभावसमासः । समासस्वरः । आमुष्य । मुशस्तेये । ल्यप् । चमूशु । चमु अदने । कृषिचमितनिधनिसर्जिखर्जिभ्य ऊरित्यूप्रत्ययः । प्रत्ययस्वरः ॥ ४ ॥