श्रवणम्

3.54.10
इ॒मं स्तोमं᳚ रोदसी॒ प्र ब्र᳚वीम्यृदू॒दरा᳚ः शृणवन्नग्निजि॒ह्वाः ।
मि॒त्रः स॒म्राजो॒ वरु᳚णो॒ युवा᳚न आदि॒त्यासः᳚ क॒वयः᳚ पप्रथा॒नाः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । स्तोम᳚म् । रो॒द॒सी॒ इति᳚ । प्र । ब्र॒वी॒मि॒ । ऋ॒दू॒दराः᳚ । शृ॒ण॒व॒न् । अ॒ग्नि॒॑जि॒ह्वाः ।
मि॒त्रः । स॒म्॑राजः᳚ । वरु᳚णः । युवा᳚नः । आ॒दि॒त्यासः᳚ । क॒वयः᳚ । प॒प्र॒था॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रोदसी च्यावापृथिव्याविमं युष्मदीयं स्तोमं प्रब्रवीमि । प्रकर्षेण वदामि । ऋदूदराः । ऋदु मृदु उदरं येषां ते ऋदूदराः । यद्वा । मृदुरुदरे सोमो येषां ते ऋदूदराः । अग्निजिह्वाः । अग्निर्जिह्वास्थानीयो येषां ते तथोक्ताः । सम्राजः सम्यग्दीप्यमाना युवानो नित्यतरुणाः । यद्वा । यजमानानभिमतफलैर्मिश्रीकुर्वन्तः । कवयः क्रान्तदर्शिनः पप्रथानाः स्वानि स्वानि कर्माणि प्रथयन्तो मित्रादयो देवाः शृणवन् । तदिदं स्तोत्रं शृण्वन्तु । शृणवन् । श्रुश्रवण इत्यस्य लेट्यडागमः । अग्निजिह्वाः । त्रिचक्रादित्वादन्तोदात्तत्वम् । पप्रथानाः । प्रथ प्रख्यान इत्यस्य कानचि रूपम् । चित्त्वादन्तोदात्तः ॥ १० ॥