अग्ने᳚ य॒ह्वस्य॒ तव᳚ भाग॒धेयं॒ न प्र मि᳚नन्ति वि॒दथे᳚षु॒ धीरा᳚ः ॥
पदपाठः (Word-by-word)
अग्ने᳚ । य॒ह्वस्य᳚ । तव᳚ । भा॒ग॒॑धेय᳚म् । न । प्र । मि॒न॒न्ति॒ । वि॒दथे᳚षु । धीराः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
कवे मेधाविन् हे जातवेद इहास्मिन्नग्निष्टोमाख्ये कर्मणि तत्र च माध्यन्दिने मध्यन्दिनसम्बन्धिनि सवने पुरोडाशं माध्यन्दिनसवनीयपुरोडाशम् । जुषस्व । सेवस्व । हे अग्ने विदथेषु यज्ञेषु धीराः कर्मकुशला अध्वर्व्यादयो यह्वस्य । यान्ति प्राप्नुवन्ति देवा हविंष्यनेनेति यह्वो महानग्निः । यह्वस्य महतस्तव भागधेयं भागतया परिकल्पितमिमं पुरोडाशं न प्रमिनन्ति । न हिंसन्ति । किन्तु तुभ्यं प्रयच्छन्ति । तं जुषस्वेति शेषः । माध्यन्दिने । मध्यन्दिनस्येदमित्यर्थ उत्सादित्वादञ् । ञेत्त्वादादिवृद्धिः । ञित्त्वादेवाद्युदात्तत्वम् । यह्वस्य । या प्रापण् इत्यस्मात् शेवयह्वजिह्वेति निपातनात्करणे वन्प्रत्ययः । हुगागमधातुह्रस्वौ । यान्त्यनेनेशि यह्वोऽग्निः । व्यत्ययेनान्तोदात्तः । भागधेयम् । भागशब्दात्स्वार्थे भागरूपानामभ्यो धेयप्रत्ययो वक्तव्यः । पा. ५-४-३६-२ । इति धेयः । प्रत्यय स्वरः । मिनन्ति । मिञ् हिम्सायामित्यस्य क्र्यादित्वात् श्ना । तस्मिन् मीनातेर्निगम इति ह्रस्वत्वं हिनु मीना । पा. ८-४-१५ । इति णत्वं न भवति सर्वविधीनां छन्दसि विकल्पितत्वादिति ॥ ४ ॥