श्रवणम्

3.15.4
अषा᳚ळ्हो अग्ने वृष॒भो दि᳚दीहि॒ पुरो॒ विश्वा॒ः सौभ᳚गा संजिगी॒वान् ।
य॒ज्ञस्य᳚ ने॒ता प्र᳚थ॒मस्य᳚ पा॒योर्जात᳚वेदो बृह॒तः सु᳚प्रणीते ॥
▶ पदपाठः (Word-by-word)
अषा᳚ळ्हः । अ॒ग्ने॒ । वृ॒ष॒भः । दि॒दी॒हि॒ । पुरः᳚ । विश्वाः᳚ । सौभ᳚गा । स॒म्॑जि॒गी॒वान् ।
य॒ज्ञस्य᳚ । ने॒ता । प्र॒थ॒मस्य᳚ । पा॒योः । जात᳚॑वेदः । बृ॒ह॒तः । सु॒॑प्र॒नी॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अषाळ्हः शत्रुभिरसोढोऽपराजितः । स्वयं शत्रूञ्जयतीत्यर्थः । वृषभः कामानां वर्षियिता एवंभूतस्त्वं विश्वाः सर्वाः पुरः शत्रूणां पुरीः सौभगा तत्रत्यानि शोभनान्युत्तमानि धनानि च सञ्जिगीवान् सम्यग्जयन् दीदिहि । सर्वतो ज्वलाभिर्दीप्यस्व । सुप्रणीते शोभनप्रणयन जातवेदो जातप्रज्ञ हे अग्ने बृहत उपदिष्टातिदिष्टद्विविधेतिकर्तव्यताकलापेन महतः । पायोस्तत्फलप्रदानेन रक्षकस्य प्रथमस्य मुख्यतया प्रथमं क्रियमाणस्य एषवाव प्रथमो यज्ञो यज्ञानां यज्जोतिष्टोम इति श्रुतेः । तादृशस्य ज्योतिष्टोमाख्यस्य यज्ञस्य नेता हविर्हनदेवताह्वानादिक्रिया निर्वाहको भव । अषाळ्हः । षहमर्षण इत्यस्य निष्ठायां होढ इति ढकारः । यषस्तथोर्थोध इति क्तस्य धकारः । ष्ग्टुत्वेन ढः । ढलोपे कृते ढ्रलोपे पूर्वस्य दीर्घ इति दीर्घः । ऒत्वाभावश्छान्दसः । सहेः साडः स इति सकारस्य मूर्धान्यादेशः । अव्ययपूर्वपदप्रकृतिस्वरे न ञ्स्वरः । वृषभ वृष सेचने । ऋषिवृषिभ्यां किदित्यभच् । चित्स्वरः । दीदिहि । दिवु क्रीडादावित्यस्य यङ्लुकि लोटो मध्यमैकवचने संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावः । सर्वे विधयश्छन्दसि विकल्प्यन्त इति पूर्वत्रासिद्धमित्यस्याप्रवृत्तौ परत्वाद्धलि चेति दीर्घत्वं पश्चाद्वलोपः । सौभगा । सुभगान्मन्त्र इत्युद्गात्रादिषु पाठाद्भावार्थेऽञ् । हृद्भगसिन्ध्वन्त इति पूर्वपदस्य वृद्धिः । उत्तरपदस्य वृद्धिर्न हवति सर्वविधीनां छन्दसि विकल्पितत्वात् । सुपां सुलिगिति सुपो डादेशः । तेन च सौभाग्येन धनान्युपलक्ष्यन्ते । ञित्त्वादाद्युदात्तः । सञ्जिगीवान् । जी जये । छन्दसि लिट् । तस्य क्वसुः । सन्लिटोर्जेरिति कवर्गादेशः । प्रत्यय स्वरः । दीर्घाश्छान्दसः । पायोः । पा रक्षणे । कृवापाजिमीयादिना उण् प्रत्ययः । आतो युक् चिण् कृतोरिति युगागमः । प्रत्ययस्वरः ॥ ४ ॥