श्रवणम्

3.15.5
अच्छि᳚द्रा॒ शर्म᳚ जरितः पु॒रूणि᳚ दे॒वा{4} अच्छा॒ दीद्या᳚नः सुमे॒धाः ।
रथो॒ न सस्नि᳚र॒भि व᳚क्षि॒ वाज॒मग्ने॒ त्वं रोद᳚सी नः सु॒मेके᳚ ॥
▶ पदपाठः (Word-by-word)
अच्छि᳚द्रा । शर्म᳚ । ज॒रि॒त॒रिति᳚ । पु॒रूणि᳚ । दे॒वान् । अच्छ᳚ । दीद्या᳚नः । सु॒॑मे॒धाः ।
रथः᳚ । न । सस्निः᳚ । अ॒भि । व॒क्षि॒ । वाज᳚म् । अ॒ग्ने॒ । त्वम् । रोद᳚सी॒ इति᳚ । नः॒ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जरितः सर्वस्य जगतोऽन्तकाले जरयितर्हे अग्ने सुमेधाः शोभनप्रज्ञोपेतो दीद्यानः । स्वतेजसा प्रकाशमानस्त्वं देवान् यष्टव्यान्देवान् अच्छाभिलक्ष्य तदुद्देशेन क्रियमाणानि पुरूणि शर्म स्वर्गादिसुखसाधनभूतान्यग्निहोत्रादीनि कर्माण्यच्छिद्रा अच्छिद्राणि कुरु । कर्तृकर्मसाधनवैकल्यराहित्येन सम्पूर्णानि कुरु । किञ्च हे अग्ने त्वं सस्निः सन्निरुद्धः स्वकीयं सततगमनं सन्निरुद्ध्य हविष्प्रक्षेप पर्यन्तमत्र वर्तमानस्त्वं वाजं नोऽस्माभिर्दीयमानं हविर्लक्षणमन्नमभिदेवानभिलक्ष्य वक्षि । वह प्रापय । तत्र दृष्ठान्तः रथो न रथ इव ॥ यथा रथो धान्यादिकमूढ्वा तत्स्वामिनं प्रापयति तद्वत् । किञ्च त्वमग्ने रोदसी द्यावापृथिव्यौ सुमेके शोभनरूपोपेते स्वकीयप्रभाभिः प्रकाशयुक्ते कुरु ॥ दीद्यानः । दीदेतिः दीप्तिकर्मा । तस्माच्छानच् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सुमेधाः । नित्यमसिच् प्रजामेधयोरित्यसिच् प्रत्ययः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपादान्तोदात्तत्वम् । सस्निः । षस स्वप्ने । अस्मादौणादिको निन् । नित्त्वादाद्युदात्तत्वम् । वक्षि वहप्रापणे । अस्य लोटः सिपि बहुलं छन्दसीति शपो लुक् । ढत्वकत्वे । हिरादेशश्छान्दसत्वान्न भवति निघातः ॥ ५ ॥