श्रवणम्

3.29.8
सीद᳚ होत॒ः स्व उ᳚ लो॒के चि᳚कि॒त्वान्त्सा॒दया᳚ य॒ज्ञं सु᳚कृ॒तस्य॒ योनौ᳚ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा᳚ यजा॒स्यग्ने᳚ बृ॒हद्यज᳚माने॒ वयो᳚ धाः ॥
▶ पदपाठः (Word-by-word)
सीद᳚ । हो॒त॒रिति᳚ । स्वे । ऊं॒ इति᳚ । लो॒के । चि॒कि॒त्वान् । सा॒दय᳚ । य॒ज्ञम् । सु॒॑कृ॒तस्य᳚ । योनौ᳚ ।
दे॒व॒॑अ॒वीः । दे॒वान् । ह॒विषा᳚ । य॒जा॒सि॒ । अग्ने᳚ । बृ॒हत् । यज᳚माने । वयः᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानो ब्रूते । होतर्होमनिष्पादक हे अग्ने स्वे स्वकीये लोक उत्तरवेद्या नाभौ सीदो त्वं होमनिमित्तमुपविशैव । तथा चिकित्वान् ज्ञानवांस्त्वं सुकृतस्य सुकृतजन्योपभोगस्य योनौ स्थान उत्तमलोके यज्ञं यज्ञस्य कर्तारं यजमानं सादय । स्थापय । किञ्च देवावीः । देवान् हविष्प्रदानेनावतीति देवावीः । तादृशस्त्पं हविषा पुरोडाशादिलक्षणेन हव्येन देवान् यजासि । यज । अथ त्वं यजमाने यागं कुर्वाणे मयि बृहत्प्रभूतं पशुपुत्रादि समेतं वयोऽन्नं धाः । विधेहि ॥ सीद । सदेर्लोटि रूपम् । सादय । सदेर्ण्यं तस्य लोटिरूपम् । णिच् स्वरः । देवावीः । अव रक्षणादिषु । अवितॄस्तृतन्त्रिभ्यः ईरितीप्रत्ययः । कृदुत्तरपदस्वरः । यजासि । यजेर्लेट्याडागमः । धाः । दधातेश्छान्दसे लुङि रूपं ॥ ८ ॥