श्रवणम्

3.34.7 समानपद
यु॒धेन्द्रो᳚ म॒ह्ना वरि᳚वश्चकार दे॒वेभ्य॒ः सत्प᳚तिश्चर्षणि॒प्राः ।
वि॒वस्व᳚त॒ः सद᳚ने अस्य॒ तानि॒ विप्रा᳚ उ॒क्थेभि᳚ः क॒वयो᳚ गृणन्ति ॥
▶ पदपाठः (Word-by-word)
यु॒धा । इन्द्रः᳚ । म॒ह्ना । वरि᳚वः । च॒का॒र॒ । दे॒वेभ्यः᳚ । सत्॑प᳚तिः । च॒र्ष॒णि॒॑प्राः ।
वि॒वस्व᳚तः । सद᳚ने । अ॒स्य॒ । तानि᳚ । विप्राः᳚ । उ॒क्थेभिः᳚ । क॒वयः᳚ । गृ॒ण॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्पतिः सतां देवानां पतिश्चर्षणिप्राश्चर्षणीनां मनुष्याणामपेक्षितफलप्रदानेन कामपुरकः स इन्द्रो मह्ना महता युधा युद्धेन वरिवः । भृशं व्रियतेऽर्थिभिरिति वरिवो धनम् । तादृशं धनं युद्धेन लब्ध्वा देवेभ्यो देवनशीलेभ्यः स्तोतृभ्यश्चकार । दत्तवान् । विप्रा मेधाविनः कवयः स्तोतारो विवस्वतो विशेषेणाग्निहोत्रादिकर्मार्थे वसतो यजमानस्य सदने गृहेऽस्येन्दस्य तानि व्रुत्रहननबहुप्रदानानि कर्माण्य्क्थेभिः स्तोत्रैर्गृणन्ति । स्तुवन्ति ॥ युधा । युध सम्प्रहारे । भावे सम्पदादिलक्शनः क्विप् । सावेकाच इति विभक्तेरुदात्तता । वरिवः । वृञ् वरण इत्यस्य यङ् लुकि ऋतश्चेत्यभ्यासस्य रिगागमः । तदन्तादसुन् । बाहुलकाट्टिलोपः । नित्स्वरः । चकार । करोतेर्लिटि रूपम् । निघातः । सत्पतिः । अस्तेः शरति रूपं सदिति । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । चर्षणिप्राः । प्रा पुरणे । विच् । विवस्वतः । विपूर्वाद्वस निवास इत्यस्मात्संपदादिलक्षणणो भावे क्विप् । तदस्यास्त्यस्मिन्निति मतुप् । मादुपधाया इति तस्य वत्वम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । गृणन्ति । गृ शब्द इत्यस्य लिटि रूपम् । निघातः ॥ ७ ॥