श्रवणम्

3.61.2 समानपद
उषो᳚ दे॒व्यम᳚र्त्या॒ वि भा᳚हि च॒न्द्रर᳚था सू॒नृता᳚ ई॒रय᳚न्ती ।
आ त्वा᳚ वहन्तु सु॒यमा᳚सो॒ अश्वा॒ हिर᳚ण्यवर्णां पृथु॒पाज᳚सो॒ ये ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । दे॒वि॒ । अम᳚र्त्या । वि । भा॒हि॒ । च॒न्द्र॑र᳚था । सू॒नृताः᳚ । ई॒रय᳚न्ती ।
आ । त्वा॒ । व॒ह॒न्तु॒ । सु॒॑यमा᳚सः । अश्वाः᳚ । हिर᳚ण्य॑वर्णाम् । पृ॒थु॒॑पाज᳚सः । ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो देव्यमर्त्या मरणधर्मरहिता चन्द्ररथा सुवर्णमयरथोपेता सूनृताः प्रियसत्यरूपा वाच ईरयन्त्युच्चारयन्ती । तथा च मन्त्रवर्णः । सुम्नावरी सूनृता ईरयन्ती । ऋग्वे. १-११३-१२ । इति । तादृशी त्वं वि भाहि । सूर्यकिरणसम्बन्धाद्विशेषेण दीप्यस्व । पृथुपाजसः प्रभूतबलयुक्ता अरुणवर्णा येऽश्वा विद्यन्ते सुयमासः सुष्ठु नियन्तुं शक्या रथे योजितास्तेऽश्वा हिरण्यवर्णां त्वां त्वामावहन्तु । सुयमासः । यमेरकृच्छ्रार्थे खल् । लित्स्वरः ॥ २ ॥