वि॒द्वा{4} आ व᳚क्षि वि॒दुषो॒ नि ष᳚त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये᳚ यजत्र ॥
पदपाठः (Word-by-word)
वि॒द्वान् । आ । व॒क्षि॒ । वि॒दुषः᳚ । नि । स॒त्सि॒ । मध्ये᳚ । आ । ब॒र्हिः । ऊ॒तये᳚ । य॒ज॒त्र॒ ॥
सायणभाष्यम् (Sayana Commentary)
ऋतावः । ऋतं सत्यभूतो यज्ञः । तद्वन् हे अग्ने ते त्वद्विषयां नमौक्तिं नमस्कारवाक्यमहमयामि । प्रेरयामि । उच्चारयामि । हे सहस्वः । सहोबलम् । तद्वन्नग्ने चेतते चेतयित्रे कर्मणः प्रज्ञापकाय तुभ्यं नौक्तिः क्रियते । तां जुषस्व । अस्माभिः क्रियमाणां नमस्कारोक्तिं सेवस्य । किञ्च यजत्र यषव्य हे अग्न ऊतयेस्माऽकं रक्षणाय मध्ये बर्हिः स्तीर्णस्य बर्हिषो मध्य आ निषत्सि । आसमन्तान्निषीद ॥ आयामि । इण् गतौ । भौवादिकः । पादादित्वादनिघातः । जुषस्व । जुषी प्रीतिसेवनयोः । तुदादिः । लोट रूपम् । निघातः । चेतते । चिती संज्ञाने । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे ततोन्तोदात्तताभावाच्छतुरनुम इति विभक्तेरुदात्तताभावः । धातुस्वरः । सहस्वः । सहोऽस्त्यस्येति मतुप् । सकारस्य तसौ मत्वर्थ इति भसंज्ञकत्वाद्रुन भवति । मादुपधाया इति मतुपो वत्वम् । उगिदचामिति नुम् । हल्ब्यादिलोपे नकारस्य मतुवसो रुरिति रुत्वम् । आमन्त्रितनिघातः । विदुषः । विद ज्ञान इत्येतस्मादुत्तरस्य शतुर्विदेः शतुर्वसुरिति वस्वादेशः । भसं ज्ञायां वसोः सम्प्रसारणं प्रत्ययस्वरः । सत्सि । षद् लृ विशरणादिषु । लिट बहुलं छन्दसीति शपो लुक् । शित्प्रत्ययपरत्वाभावात्सीदादेशाभावः । सदेरप्रतेरिति षत्वम् । यजत्र । यज देवपूजादिषु । अमिनक्षियजीत्यादिनात्रन्प्रत्ययः । आमन्त्रित निघातः ॥ २ ॥