श्रवणम्

3.14.1
आ होता᳚ म॒न्द्रो वि॒दथा᳚न्यस्थात्स॒त्यो यज्वा᳚ क॒वित᳚म॒ः स वे॒धाः ।
वि॒द्युद्र᳚थ॒ः सह᳚सस्पु॒त्रो अ॒ग्निः शो॒चिष्के᳚शः पृथि॒व्यां पाजो᳚ अश्रेत् ॥
▶ पदपाठः (Word-by-word)
आ । होता᳚ । म॒न्द्रः । वि॒दथा᳚नि । अ॒स्था॒त् । स॒त्यः । यज्वा᳚ । क॒वि॑त᳚मः । सः । वे॒धाः ।
वि॒द्युत्॑र᳚थः । सह᳚सः । पु॒त्रः । अ॒ग्निः । शो॒चिः॑के᳚शः । पृ॒थि॒व्याम् । पाजः᳚ । अ॒श्रे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषभोऽग्निं स्तौति । होता देवानामाह्वाता मन्द्रः स्तोतुर्मादयिता सत्यः सत्यकर्मा कवितमोऽतिशयेन मेधावी यज्वा देवानां यष्टा वेधाः सर्वस्य जगतो विधाता । एवं विधमहिमोपेतः सोऽग्निर्विदधान्यस्माभिः क्रियमाणान्यज्ञानाथात् । आतिष्ठति । प्राप्नोति । किञ्च विद्युद्रथो विद्योतमानयानोपेतः शोचिष्केशः । शोचींषि ज्वालाः केशा यस्य सः । ज्वालामयकेशोपेतः सहसस्पुत्रो बलस्य सूनुरेवम्भूतः सोऽग्निः पृथिव्यां विस्तीर्णेऽन्तरिक्षे पाजस्तेजः स्वकीयां प्रभामश्रेत् । श्रयते । प्रापयति । यद्वा पृथिव्यां भूमौ वर्तमानः पाजो बलं सेवते ॥ मन्द्रः । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । अस्मात्स्फायितञ्चीत्यादिना रक् इदित्त्वान्नुम् । अस्थात् । ष्ठा गतिनिवृत्तौ । छन्दसि लुङ्ल ङ्लिट इति वर्तमाने लुङ् । गातिस्थेति सिचो लोपः । निघातः । यज्वा । यज देवपूजासंगतिकरणदानेषु । सुयजेर्ङ्वनिबिति ङ्वनिप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । कवितमः । कु शब्दे । कौति कूयते वा । अच इरिति कर्तरि भावे वा इप्रत्ययः । तमपः पित्त्वादनुदात्तत्वे प्रत्ययस्वरः । शोचिष्केशः । शुच दीप्तौ । अर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य इसिरितीसिः । प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । क्श्रेत् । श्रिञ् सेवायामित्यस्य छन्दसि वर्तमाने लङ् । बहुलं छन्दसीति शपो लुक् । सार्वधातुकगुणः । निघातः ॥ १ ॥