यजि᳚ष्ठेन॒ मन᳚सा यक्षि दे॒वानस्रे᳚धता॒ मन्म᳚ना॒ विप्रो᳚ अग्ने ॥
पदपाठः (Word-by-word)
यजि᳚ष्ठेन । मन᳚सा । य॒क्षि॒ । दे॒वान् । अस्रे᳚धता । मन्म᳚ना । विप्रः᳚ । अ॒ग्ने॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने उत्तानहस्ता हविःस्वीकरणादुत्तानपाणयो वयं कामं कमनीयं पुरोडाशादिहविस्ते तुभ्यमद्ध्येदानीमस्मिन्कर्मणि ररिम । दद्मः । नमसा नमस्कारेणोपसद्य प्रसन्नो भूत्वा यजिष्ठेन यष्टृतमेन यागेच्छावता मनसान्तः करणेन देवान्यक्षि । यजनीयान्देवान्यज । पूजय । किञ्च विप्रो मेधावि कर्माभिज्ञस्त्वमस्रेधताक्षीणेन प्रभूतेन मन्मना मन्तव्येन स्तोत्रेण देवान्पूजय ॥ अद्य । सद्यः परुत्परार्यैषम इत्यादिना निपातितः । अन्तोदात्तश्च । ररिम । रादान इत्यस्य वर्तमाने लिटि परस्मैपदानां णलतुः । पा. ३-४-८२ । इत्यादिना मसोमादेशः । क्रादिनियमादिडागमः । आतो लोप इटि चेत्याकारलोपः । हियोगादनिघातः । आगमा अनुदात्ता इतीटोऽनुदात्तत्त्वात्प्रत्ययस्वरः । उपसद्य । षद्लृविशरणगत्यवसादनेषु । अस्यक्त्वा । समासेऽनञ् पूर्वेक्त्वोल्यबितिल्यप् । लित्स्वरः । यक्षि । यज देवपूजासङातिकरणदानेषु । लोटि बहुलं छन्दसीति शपो लुक् । षत्वकत्वे । सिपो ह्यादेशाभाश्छान्दसः । अस्रेधता । स्रिधिः क्षयार्थः । तत्पुरुष इति नञ् स्वरः ॥ ५ ॥