वि॒द्मा हि त्वा᳚ धनंज॒यं वाजे᳚षु दधृ॒षं क᳚वे ।
अधा᳚ ते सु॒म्नमी᳚महे ॥
अधा᳚ ते सु॒म्नमी᳚महे ॥
पदपाठः (Word-by-word)
वि॒द्म । हि । त्वा॒ । ध॒न॒म्॑ज॒यम् । वाजे᳚षु । द॒धृ॒षम् । क॒वे॒ ।
अध᳚ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥
अध᳚ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे कवे क्रान्तदर्शिन्निन्द्र वाजेषु युद्धेषु दधृषं शत्रूणामभिभवितारं आत एव धनञ्जयम् । धनं जयतीति धनञ्जयः । तादृशं त्वा त्वां विद्म हि । जानीमः खलु । अधानन्तरं ते तव सुम्नं धनमीमहे । याजामहे ॥ विद्म । विदेर्लटि विदो लटो वेति मसो मादेशः । पादादित्वादनिघातः । धनञ्जयम् । जि जय इत्यस्माद्धन उपपदे संज्ञायां भृतॄवृजिधारिसहितपिदम इति खच् प्रत्ययः । अरुर्द्विषदजन्तस्य मुमिति पूर्वपदस्य मुमागमः । चित्वादन्तोदात्तः । दधृषम् । ञधृषा प्रागल्भ्य इत्यस्य यङ्लुक्यभ्यासस्य रीगभावश्छान्दसः । तदन्तात्पचाद्यचि यङोऽचि चेति यङो लुक् । लघूपधगुणे प्राप्ते न धातुलोप इति तस्य प्रतिषेधः । चित्त्वादन्तोदात्तः ॥ ६ ॥