त्वां सु॒तस्य᳚ पी॒तये᳚ प्र॒त्नमि᳚न्द्र हवामहे ।
कु॒शि॒कासो᳚ अव॒स्यवः᳚ ॥
कु॒शि॒कासो᳚ अव॒स्यवः᳚ ॥
पदपाठः (Word-by-word)
त्वाम् । सु॒तस्य᳚ । पी॒तये᳚ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ।
कु॒शि॒कासः᳚ । अ॒व॒स्यवः᳚ ॥
कु॒शि॒कासः᳚ । अ॒व॒स्यवः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र अवस्यवस्त्वत्तो रक्शणमिच्छन्तः कुशिकासः कुशिकगोत्रोत्पन्ना वयं सुतस्य ग्रावभिरभिशुतस्य सोमस्य पीतये पानार्थं प्रत्नं पुरातनं त्वां हवामहे । स्तुतिलक्षणाभिर्गीर्भिराह्वयामः । पीतये । स्थागापापचो भाव इति क्तिन् । हिश्ठवत्सरतिशत्थान्तानाम् । फि. १-२ । इत्यन्तोदात्तत्वम् । हवामहे । ह्वयत्वेरटि बहुलं छन्दसीति सम्प्रसारणे रूपम् । अवस्यवः । अव इच्छन्तीत्यर्थे सुपः क्यच् । क्याछन्दसीत्युप्रत्ययः । कुशिकासो अवस्यव इत्यत्र संहितायामव्यादवद्यादित्यादिना । पा. ६-१-११६ । एङि प्रकृतिभावः ॥ ९ ॥