इन्द्रं॒ सोम᳚स्य पी॒तये॒ स्तोमै᳚रि॒ह ह᳚वामहे ।
उ॒क्थेभि᳚ः कु॒विदा॒गम᳚त् ॥
उ॒क्थेभि᳚ः कु॒विदा॒गम᳚त् ॥
पदपाठः (Word-by-word)
इन्द्र᳚म् । सोम᳚स्य । पी॒तये᳚ । स्तोमैः᳚ । इ॒ह । ह॒वा॒म॒हे॒ ।
उ॒क्थेभिः᳚ । कु॒वित् । आ॒॑गम᳚त् ॥
उ॒क्थेभिः᳚ । कु॒वित् । आ॒॑गम᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
स्तोमैस्त्रिवृत्पञ्चदशादिस्तोमसाध्यैः स्तोत्रैरुक्थेभिरुक्थैः शस्त्रैश्चेह कर्मणि सोमस्य पीतये सोमपानार्थमिन्द्रं हवामहे । वयमाह्वयामः । कविद्भहुवारमाहूतः स इन्द्र आगमत् । यज्ञं प्रत्यागच्छतु ॥ आगमत् । गमेर्लेट्यडागः । आगमा अनुदात्ता इत्यटोऽनुदात्तत्वाद्धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । कुविद्योगादनिघातः ॥ ४ ॥