श्रवणम्

3.42.3
इन्द्र᳚मि॒त्था गिरो॒ ममाच्छा᳚गुरिषि॒ता इ॒तः ।
आ॒वृते॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । इ॒त्था । गिरः᳚ । मम᳚ । अच्छ᳚ । अ॒गुः॒ । इ॒षि॒ताः । इ॒तः ।
आ॒॑वृते᳚ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र इषितास्त्वदर्थं प्रेरिता इथ्थेथमनेन प्रकारेणोच्यमाना मम गिरः स्तुतिलक्षणा वाच इन्द्र त्वामितोऽस्माद्देवयजनदेशादच्छागुः । अभिमुख्येन गच्छन्तु । किमर्थम् । सोमपीतये सोमपानार्थमावृते त्वामावर्तयितुम् । इत्था । इदं शब्दात्था हेतौ च छन्दसीति व्यत्ययेन थाप्रत्ययः । इदम एतेतौ रथोरितीदित्यादेशः । प्रत्ययस्वरः । आच्छ । आच्छ गत्यर्थवदेष्विति गतिसंज्ञा । आगुः । इण् गतावित्यस्य लुङि रूपम् । निघातः ॥ ३ ॥