श्रवणम्

3.13.2 समानपद
ऋ॒तावा॒ यस्य॒ रोद᳚सी॒ दक्षं॒ सच᳚न्त ऊ॒तयः᳚ ।
ह॒विष्म᳚न्त॒स्तमी᳚ळते॒ तं स᳚नि॒ष्यन्तो॑व᳚से ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑वा᳚ । यस्य᳚ । रोद᳚सी॒ इति᳚ । दक्ष᳚म् । सच᳚न्ते । ऊ॒तयः᳚ ।
ह॒विष्म᳚न्तः । तम् । ई॒ळ॒ते॒ । तम् । स॒नि॒ष्यन्तः᳚ । अव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य पूर्वमन्त्रे प्रतिपादितस्याग्ने रोदसी इमे द्यावापृथिवौ वते भवतः । अग्नेः प्रकाशकत्वेन तदधीनप्रकाशके भवत इत्यर्थः । किञ्च ऊतयो यजमानस्य फलप्रदानेन रक्षितारो देवा दक्षं यस्याग्नेर्बलं सञ्चते सेवन्ते । सचन्ते सेवन्ते । नि. ७-२३ । इति यास्कः । अग्नेर्यजमानदत्तहविषां प्रदातृत्वेन तदधीना इत्यर्थः । एवंभूतः सोऽग्निरृतावा सत्यकर्मा । सत्यसंकल्प इत्यर्थः । किञ्च हविष्मन्तः संभृतहविष्का यजमाना हविर्वहनार्थं तमेवाग्निमीळते । स्तुति रूपाभिर्वाग्भिः पूजयन्ति । किञ्च सनिष्यन्तो धनादिलाभमिच्छन्तस्तमवसे रक्षणाय तमेवाग्निमाश्रयन्ते ॥ ऋतावा । ऋतशब्धात्तदस्यास्तीति छन्दसीवनिपौ व्यक्तव्याविति वनिप् । अन्येषामपि दृश्यत इति दीर्घः । वनिपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः । सचन्ते । सच समवाये । व्यत्ययेनात्मनेपदम् । यद्वृत्तयोगादनिघातः । सनिष्यन्तः । सनिर्लाभः । तमिच्छन्तः । सुप आत्मनः क्यच् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्य इति क्यच् परतः सुगागमः । क्यचः स्वरः ॥ २ ॥