दा॒धार॒ यः पृ᳚थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य᳚मु॒षसं᳚ सु॒दंसा᳚ः ॥
पदपाठः (Word-by-word)
दा॒धार᳚ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ज॒जान᳚ । सूर्य᳚म् । उ॒षस᳚म् । सु॒॑दंसाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वे सर्वे देवा इन्द्रस्य तव कर्म कर्माणि सुकृता सुकृतानि सुष्ठु निर्मितानि पृथिवादीनि पुरूणि बहूनि व्रतानि यज्ञानि च न मिनन्ति । एतानि सर्वाणि तव कर्माणि न हिम्सन्ति । किन्त्वाद्रियन्ते । किञ्च योऽयमिन्द्रः पृथिवीं भूलोकं द्यां द्युलोकं उत अपि चेमामिममन्तरिक्षलोकं च एतांस्त्रीन् लोकान् दधार । सुदंसाः सुकर्मा शोभनकर्मा सन्निन्द्रः सूर्यं लोकप्रकाशकमादित्यमुषमग्निहोत्रादिकर्मनिर्वाहकमुशःकालं जजान । उत्पादयामास ॥ इन्द्रस्य कर्म सुकृता पुरूणीत्येतत्पदकदम्बकमेको द्वे वसुमती इत्यस्मिन्वर्गे । ऋग्वे.३-२-३ । पठितम् । अत्रापि तदेव पठ्यते किमिति पदकाले नोत्सृज्यत इति चेन्न । वाक्यभेदात् । तत्रेन्द्रस्य कर्म सुकृता पुरूणीत्येकं वाक्यं अत्र तु कर्म सुकृतेत्येकं वाक्यं पुरूणि व्रतानीत्यपरम् । किञ्च तत्रत्यं पदकदम्बकं प्रथमान्तं अत्रत्यं द्वितीयान्तम् । अतो वाक्यभेदाद्विभक्तिभेदाच्च पदकाले नोत्सृज्यते ॥ मिनन्ति । मीञ् हिंसायामित्यस्य लटि रूपम् । निघातः । दधार । धृञ् धारण इत्यस्य लिटि रूपम् । तुजादित्वादभ्यासस्य दीर्घः । लित्स्वरः । जजान । जन जनन इत्यस्यान्तर्भावितण्यर्थस्य लिटि रूपम् । लित्स्वरः । सुदंसाः । सोर्मनसी इत्युत्तरपदाद्युदात्तत्वं ॥ ८ ॥