श्रवणम्

3.32.15
आपू᳚र्णो अस्य क॒लश॒ः स्वाहा॒ सेक्ते᳚व॒ कोशं᳚ सिसिचे॒ पिब᳚ध्यै ।
समु᳚ प्रि॒या आव᳚वृत्र॒न्मदा᳚य प्रदक्षि॒णिद॒भि सोमा᳚स॒ इन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
आ॑पू᳚र्णः । अ॒स्य॒ । क॒लशः᳚ । स्वाहा᳚ । सेक्ता᳚॑इव । कोश᳚म् । सि॒सि॒चे॒ । पिब᳚ध्यै ।
सम् । ऊं॒ इति᳚ । प्रि॒याः । आ । अ॒व॒वृ॒त्र॒न् । मदा᳚य । प्र॒॑द॒क्षि॒णित् । अ॒भि । सोमा᳚सः । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

माध्यन्दिन सवन आग्नीध्रीयस्य आपूर्णो अस्येति प्रस्थितयाज्या । सूत्रितं च । आपूर्णो अस्यकलशः स्वाहेति माध्यन्दिन्यः । आ. ५-५- । इति ॥

हे इन्द्र अस्य तव पानार्थं कलशो द्रोणकलशः सोमेनापुर्णः । स्वाहा स्वाहा कृतो दत्तश्च सोमसहितः कलशः पिबध्यै तव पानर्थम् । सिसिचे । तं सोमं चोदिताधारे सोञ्चामि । तत्र दृष्टान्तः । कोशं सेक्तेव । यथा सेक्तोत्सेचको जलपूर्णात्कोशात् दृतेः सकाशाज्जलं पात्रान्तरे सिञ्चति तद्वत् । प्रियाः स्वादुतमाः सोमासो दत्तास्ते सोमा इन्द्रं त्वामभि अभिलक्ष्यैव मदाय तव हर्षार्थं प्रदक्षिणित् प्रादक्षिण्येन समाववृत्रन् । सम्यगावृत्य वर्तन्तां ॥ आपुर्णः । पॄ पालन पूरणयोरित्यस्य कर्मणि निष्ठा । रदाभ्यामिति तस्य नत्वम् । गतिरनन्तर इति गतिस्वरः । स्वाहा । नोपातत्वादाद्युदात्तः । सेक्तेव कोशम् । न लोकाव्ययेति षष्ठी प्रतिषेधः । सिसिचे । षिच क्षरण इत्यस्य लिटि रूपम् । पिबध्यै । पा पान इत्यस्य तुमर्थे शध्यैन्प्रत्ययः । शित्त्वात्पिबादेशः । नित्त्वादाद्युदात्तः । अववृत्रन् । वृतु वर्तन इत्यस्य लङेशप् । बहुलं छन्दसीति तस्य शपः श्लुः । व्यत्ययेन परस्मैपदम् । बहुलं छन्दसीति झे रुडागमः ॥ १५ ॥