म॒हत्तद्वृष्णो॒ असु᳚रस्य॒ नामा वि॒श्वरू᳚पो अ॒मृता᳚नि तस्थौ ॥
पदपाठः (Word-by-word)
म॒हत् । तत् । वृष्णः᳚ । असु᳚रस्य । नाम᳚ । आ । वि॒श्व॑रू᳚पः । अ॒मृता᳚नि । त॒स्थौ॒ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वे सर्र्वे कवयो रथमातिष्ठन्तमिन्द्र पर्यभूषन् । परितोऽलमकुर्वन् । स्वरोछिः । स्वमेव रोछिर्यस्यासौ स्वरोचिः । स्वप्रभयैव दीप्यमान इत्यर्थः । अत एव श्रियो दीप्तिर्वसान आच्छादयन् सोऽयमिन्द्रश्चरति । सर्वत्र वर्तते । वृष्णः कामानां वर्षितुरसुरस्य । अस्यति प्रेरयति सर्वानन्तर्यामितयेत्यसुरः । तस्येन्द्रस्य तत्तादृशमनुभूतपुर्वं नाम । नमयति सर्वाननेन शत्रूनिति नाम कर्म । यद्वा नम्यते सर्वैर्नस्कियत इति नामेन्द्रस्य शरीरं कर्म वा । महदाश्चर्योपेतं वर्तते । तथा विश्वरूपो नानाविधरूपतां भजमानः स इन्द्रो वरुणात्मनामृतानि जलान्या तस्थौ । आधितिष्ठति । विश्वे । जसः शी । अभूषन् । भूष अलङ्कार इत्यस्य लङि रूपम् । वसानः । वस आच्छादन इत्यस्य शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः । नाम । णमु प्रह्वत्व इत्यस्मान्नामन्सीमन्नित्यादिना मनिन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । विश्वरूप इति तस्य संज्ञा । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम् । अमृतानि । कालाध्वनोरत्यन्तरसंयोग इति द्वितीया । तस्थौ । तिश्ठतेर्लिटि णलि रूपं ॥ ४ ॥