आ सु᳚ष्टु॒ती रोद᳚सी विश्वमि॒न्वे अपी᳚व॒ योषा॒ जनि᳚मानि वव्रे ॥
पदपाठः (Word-by-word)
आ । सु॒॑स्तु॒ती । रोद᳚सी॒ इति᳚ । वि॒श्व॒मि॒न्वे इति᳚ वि॒श्व॒म्॑इ॒न्वे । अपि᳚॑इव । योषा᳚ । जनि᳚मानि । व॒व्रे॒ ॥
सायणभाष्यम् (Sayana Commentary)
तत्तस्मात्सवितुः सर्वस्य जगतोऽन्तर्यामितया प्रेरयितुरस्येन्द्रस्य मे मम हिरण्ययीं सुवर्णमयीममतिं दीप्तिं नकिः को वा परिच्छिनत्ति खलु । यां मदीयां दीप्तिमशिश्रेत् य आश्रयति स सुष्टुती शोभनया स्तुत्या स्तुतः सन् विश्वमिन्वे सर्वस्य सन्तर्पयित्रौ रोदसी द्यावापृथिव्यावा वव्रे । स्वकीयतया सर्वतो व्रुणुते । तत्र दृष्टान्तः । अपीव योषा जनिमानि । यथा योशा स्त्री जनिमानि जातान्यपत्यानि वृणोति तद्वत् ॥ नकिः निपातः । हिरण्ययीम् । हिरण्यस्य विकारार्थे मयड्वैतयोरिति मयट् । ऋत्व्यवास्त्व्यवास्त्व्यमाध्वीहिरण्ययानि छन्दसीति निपातानान्मयटो मकारलोपः । तित्त्वाट्टिद्धाणञिति ङेप् । प्रत्ययस्वरः । अमतिम् । अमगत्यादिषु । अमेरतिरित्यतिप्रत्ययः । प्रत्ययस्वरः । अशिश्रेत् । श्रयतेर्लङि बहुलं छन्दसीति शपः श्लुः । यद्वृत्तयोगादनिघातः । सुष्टुती । सुपां सुलुगिति तृतीयायाः सवर्णदीर्घः । विश्वमिन्वे । इवि व्याप्तिप्रीणनयोरित्यस्मात्कर्मण्यण् । इदित्वान्नुम् । तत्पुरुषे क्रुय्ति बहुलवि ति द्वितीयाया अलुक् । कृदुत्तरपदस्वरः । योशा । यौतेर्मिश्रीभावकर्मणो वृतॄवदिहनिकमिकशियुमुचिभ्यः स इति सप्रत्ययः । ग्रामादित्वादाद्युदात्तः । जनिमानि । जनी प्रादुर्भाव्वे । हृजभ्यामिमनिन्नितीमनिन्प्रत्ययो भूतकाले । नित्त्वादाद्युदात्तः । वव्रे । वृञ् वरन इत्यस्य लिति रूपं ॥ ८ ॥