श्रवणम्

3.36.5
म॒हा{4} उ॒ग्रो वा᳚वृधे वी॒र्या᳚य स॒माच᳚क्रे वृष॒भः काव्ये᳚न ।
इन्द्रो॒ भगो᳚ वाज॒दा अ᳚स्य॒ गाव॒ः प्र जा᳚यन्ते॒ दक्षि᳚णा अस्य पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
म॒हान् । उ॒ग्रः । व॒वृ॒धे॒ । वी॒र्या᳚य । स॒म्॑आच᳚क्रे । वृ॒ष॒भः । काव्ये᳚न ।
इन्द्रः᳚ । भगः᳚ । वा॒ज॒॑दाः । अ॒स्य॒ । गावः᳚ । प्र । जा॒य॒न्ते॒ । दक्षि᳚णाः । अ॒स्य॒ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

महान्युद्धकर्मणि बलवानुग्रः शत्रूणां भयङ्कर इन्द्रो विर्याय विर्यकरनाय वावृधे । वर्धते । वृषभः फलस्याभिवर्षको भगः सर्वैर्भजनीयः स इन्द्रः काव्येन । कवयः स्तोतारः । तत्कर्म स्तोत्रम् । तेन स्तोत्रेण समाचक्रे । सङ्गच्छते । तादृशस्यास्येन्द्रस्य गावो वाजदाः क्शीरादिलक्षणान्नप्रदाः प्रजायन्ते । तथास्य पूर्वीर्बह्व्यस्ता गावो दक्शिणाः प्रजायन्ते । वावृधे । वर्धतेर्लिटि रूपम् । निघातः । वीर्याय । वीरे भवं वीर्यम् । भवे छन्दसीति यत् । वीरवीर्यौ चेत्यत्र यतोऽनाव इत्यस्यानित्यत्वस्य ज्ञापितत्वात्तित्स्वरितः । समाचक्रे । करोतेर्लिटि रूपम् । गतिर्गताविति पूर्वस्य गतेर्निघातः । काव्येन । कवेः कर्म काव्यम् । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादुपधावृद्धिः । ञित्स्वरः । वाजदाः । ददातेरातोऽनुपसर्गे कः जायन्ते । जनी प्रादुर्भाव इत्यस्य लटि रूपम् । दक्शिणाः । दक्शवृद्धावित्यस्मात् द्रुदक्शिभ्यामिनन्नितीनन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ५ ॥