अत᳚श्चि॒दिन्द्र॒ः सद᳚सो॒ वरी᳚या॒न्यदीं॒ सोमः᳚ पृ॒णति᳚ दु॒ग्धो अं॒शुः ॥
पदपाठः (Word-by-word)
अतः᳚ । चि॒त् । इन्द्रः᳚ । सद᳚सः । वरी᳚यान् । यत् । ई॒म् । सोमः᳚ । पृ॒णति᳚ । दु॒ग्धः । अं॒शुः ॥
सायणभाष्यम् (Sayana Commentary)
सिन्धवो नद्यो यथा प्रसवम् । प्रकर्षेण सूयत इति प्रसवः कामः । तमनुसृत्य यद्यदा प्रायन् प्रकृष्टमतिदूरं समुद्रं गच्छन्ति तदापो महान्तं समुद्रं रथ्येव रथिन इव जग्मुः । प्रीणनार्थं गच्छन्ति । तद्वत् अतश्चित्सदसोऽस्मादप्यन्तरिक्षादसाविन्द्रो वरीयान् । उरुतरः खलु । यदीं यमेनमिन्द्रं दुद्ग्धोऽभिषुतोऽंशुर्लताखण्दरूपोऽल्पः सोमः पृणति प्रीणयति । यथाल्पा नद्योऽल्पीयांसि च जलानि महान्तं समुद्रं प्रीणयन्ति तद्वदल्पतरोंऽशुभुतः सोमो वरीयांसमिन्द्रं प्रीणयति ॥ प्रसवम् । सवतेः कर्मण्यप् । थाथादिस्वरः । आयन् । अयतेर्लङि रुपम् । यद्योगादनिघातः । रध्येव । रथेस्येमे रथ्याः । रथाद्यदिति यत् । सुपां सुलुगिति सुपो डादेशः । तित्स्वरितः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरः । जग्मुः । गमेर्लिटि रूपम् । गमहनेत्यादिनोपधालोपः । निघातः । वरीयान् उरुशब्दादीयसुनि प्रियस्थिरेत्यादिना वरादेशः । नित्त्वादाद्युदात्तः । पृणति । पृण प्रीणने । तुदादिः । यद्योगादनिघातः । दुग्धः । दुहेः क्तः । एकाच इतीट् प्रतिशेधः । दादेर्धातोर्घ इति हकारस्य घत्वम् । झषस्तथोर्धोऽधः । प्रत्ययस्वरः ॥ ६ ॥