श्रवणम्

3.62.1
इ॒मा उ᳚ वां भृ॒मयो॒ मन्य᳚माना यु॒वाव᳚ते॒ न तुज्या᳚ अभूवन् ।
क्व१॒᳚ त्यदि᳚न्द्रावरुणा॒ यशो᳚ वां॒ येन᳚ स्मा॒ सिनं॒ भर᳚थ॒ः सखि᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । वा॒म् । भृ॒मयः᳚ । मन्य᳚मानाः । यु॒वा॑व᳚ते । न । तुज्याः᳚ । अ॒भू॒व॒न् ।
क्व᳚ । त्यत् । इ॒न्द्रा॒व॒रु॒णा॒ । यशः᳚ । वा॒म् । येन᳚ । स्म॒ । सिन᳚म् । भर᳚थः । सखि᳚॑भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमा उ वामित्यष्टादशर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका । इमा उ द्व्यूनैन्द्रावरुणबार्हस्पत्यपौष्णसावित्र सौ म्य मैत्रावरुणास्तृचा अन्त्यो जमदग्न्यार्षो वा चतुर्थ्याद्या गायत्र्य इति । कृत्स्नस्य विश्वामित्र ऋषिरन्त्यस्य तृचस्य जमदग्निर्वा । आद्यास्तिस्रस्त्रिष्टुभः शिष्टाः पञ्चदश गायत्र्यः । प्रथमस्येन्द्रावरुणौ देवता द्वितीयस्य बृहस्पतिस्तृतीयस्य पूषा चतुर्थस्य सविता पञ्चमस्य सोमः षष्ठस्य मित्रावरुणौ । आभिप्लविकेषुक्थ्येषु तृतीयसवने स्तोमवृद्धौ सत्यां स्वस्वशस्त्रे होत्रका अन्त्यसूक्तमवशेष्य स्तोमाभिशंसनार्थं तृचादिसंख्या ऋच आवपेयुः । तत्र मैत्रावरुणस्यावापार्थमाद्यस्तृचः । सूत्रितं च । इमा उ वां भृमयो मन्यमाना इति तिस्रः । आ. ७-९ । इति ॥

हे इन्द्रावरुणौ वां युवयोः सम्बन्धिन्यो मन्यमाना बलिभिः शत्रुभिरभिमन्यमाना अत एव भृमयो भ्रमणशीला इमाः प्रजाः । उः पूरणः । युवावते । तृतीयार्थे चतुर्थी । यौवनवता बलिना शत्रुणा तुज्या हिंस्या नाभूवन् । न भवन्तु । अपि च वां युवयोस्त्यत्तादृशं यशः क्व कुत्रास्ते । येन यशसा सखिभ्योऽस्मभ्यं सिन्नमन्नं भरथः स्म प्रदातुं सम्पादयथः । तत्क्वास्त इत्यन्वयः । यद्वा । हे इन्द्रावरुणौ वां युवयोः सम्बन्धिन्य इमा अस्माभिः क्रियमाणा भृमयो युवां प्रप्तुं भ्रमणशीला मन्यमानाः । मन्यरिरर्चतिकर्मा । युवामर्चन्त्यस्ताः स्तुतयो युवावते युवाभ्यां सदृशायास्न्य्स्मै देवाय न तुज्याः । तुजतिर्दानकर्मार्थः । प्रदेया मा भूवन् । शिष्टं समानम् । भृमयः । भ्रमुअनवस्थाने । भ्रमेः सम्प्रसारणं चेतीन्प्रत्ययः सम्प्रसारणं च । व्यत्ययेनान्तोदात्तत्वम् । युवावते । युश्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानमिति वतुप् । अविभक्तावपि युवादेशश्छान्दसः । तुज्याः । तुज हिंसादाननिकेतनेशु । अघ्न्यादयश्चेति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । सिनम् । पिञ् बन्धने । इण्षिञ्दीङुश्यविभ्यो नगिति नक् । व्यत्ययेनाद्युदात्तत्वं ॥ १ ॥