श्रवणम्

3.24.2
अग्न᳚ इ॒ळा समि᳚ध्यसे वी॒तिहो᳚त्रो॒ अम᳚र्त्यः ।
जु॒षस्व॒ सू नो᳚ अध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । इ॒ळा । सम् । इ॒ध्य॒से॒ । वी॒ति॑हो᳚त्रः । अम᳚र्त्यः ।
जु॒षस्व᳚ । सु । नः॒ । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वीतिहोत्रः । वीतिः प्रीतिविषयं होत्रमग्निहोत्रादिकं यस्या सौ वीतिहोत्रः । यज्ञेषुप्रीतिमानित्यर्थः । अमर्त्यो मरणधर्मरहितस्त्वमिळेळायामीड्यायामुत्तरवेद्यां समिध्यसे । आज्याहुतिप्रक्षेपेण सम्यक् प्रज्वाल्यसे । तादृशस्त्वं नोऽस्माकमध्वरमिमं यज्ञं सु सुष्ठु जुषस्व । आहुतिस्वीकरणेन सेवस्व ॥ वीतिहोत्रः । वी कान्त्यादिषु । अस्मात् कर्मणि मन्त्रे वृषेषपचेत्यादिना क्तिन्नुदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । जुषस्व । जुषतेर्लोटि रूपम् । शस्वरः । सु । निपातस्य चेति सम्हितायां दीर्घः ॥ २ ॥