श्रवणम्

3.24.5
अग्ने॒ दा दा॒शुषे᳚ र॒यिं वी॒रव᳚न्तं॒ परी᳚णसम् ।
शि॒शी॒हि नः᳚ सूनु॒मतः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । दाः । दा॒शुषे᳚ । र॒यिम् । वी॒र॑व᳚न्तम् । परी᳚णसम् ।
शि॒शी॒हि । नः॒ । सू॒नु॒॑मतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने दाशुषे तुभ्यं हविर्दत्तवेते यजमानाय वीरवन्ब्तं पुत्रयुक्तं परीणसं प्रभूतं रयिं धनं दाः । देहि । सूनुमतः पुत्रपौत्रादिसहितान्नोऽस्मान् शिशीहि । धनप्रदानेन तीक्ष्णीकुरु । दाः । डुदाञ् दान इत्यस्य छान्दसे लुङि रूपं आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । दाशुषे । दातृ दान इत्यस्य क्वसौ दाश्वान्साह्वानीढ्वांश्चेति निपातनात् द्विर्वचनाभाव इडभावश्च । भवसंज्ञायां सम्प्रसारणम् । प्रत्ययस्वरः । परीणसम् । परिपूर्वान्नसतेर्व्याप्त्यर्थात् क्विप् । आन्येषामपि दृश्यत इति दीर्थः । शिशीहि । शिञ् निशाने । व्यत्ययेन श्लुः । दीर्घश्चान्दसः हेरपित्त्वादन्तोदात्तत्वं ॥ ५ ॥