अग्ने॒ विश्वे᳚भिर॒ग्निभि᳚र्दे॒वेभि᳚र्महया॒ गिरः᳚ ।
य॒ज्ञेषु॒ य उ᳚ चा॒यवः᳚ ॥
य॒ज्ञेषु॒ य उ᳚ चा॒यवः᳚ ॥
पदपाठः (Word-by-word)
अग्ने᳚ । विश्वे᳚भिः । अ॒ग्नि॑भिः᳚ । दे॒वेभिः᳚ । म॒ह॒य॒ । गिरः᳚ ।
य॒ज्ञेषु᳚ । ये । ऊं॒ इति᳚ । चा॒यवः᳚ ॥
य॒ज्ञेषु᳚ । ये । ऊं॒ इति᳚ । चा॒यवः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने देवेभिर्द्योतमानैर्विश्वेभिः सर्वैरग्निभिर्यष्टव्यतया स्थितैरग्निभिसहितस्त्वं चायव उक्तविषयस्तुतिरूपाभिर्वाग्भिरनन्यमनस्कतया पूजका ये विद्यन्ते तेषां यज्ञेषु ज्योतिष्टोमादिषु गिरः स्तोत्रशस्त्रादिलक्षणानि वाक्यानि महय । पूजय । मह पूजायाम् । चुरादिः । अदन्तत्वादुपधावृद्ध्यभावः । निघातः । चायवः । चायृ पूजनिशामनयोः । मृगय्वादयश्चेति कुप्रत्ययः । प्रत्ययस्वरः । ॥ ४ ॥