ति॒स्रो म॒हीरुप᳚रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि᳚ते॒ दर्श्येका᳚ ॥
पदपाठः (Word-by-word)
ति॒स्रः । म॒हीः । उप᳚राः । त॒स्थुः॒ । अत्याः᳚ । गुहा᳚ । द्वे इति᳚ । निहि᳚ते॒ इति॒ नि॑हि᳚ते । दर्शि᳚ । एका᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अचरन् स्थायी एकः संवत्सरः षट् षट् संख्याकान् भारान् । भ्रियते पुष्पविकासादि येष्विति भारा ऋतवः । तान्वसन्तादीन् बिभर्ति । अवयवत्वेन धारयति । तथा ऋतं सत्यभूतं वर्षिष्ठं वृद्धतरमादित्यात्मकं तमेव संवत्सरं गावो रश्मय उपागुः । प्राप्नुवन्ति । किञ्च तस्मिन्नेव संवत्सरेऽत्या अतनशीला आगमापायिधर्मोपेतास्तिस्रो महीस्त्रयो लोका उपरा उपर्युपरि वर्तमानास्तुस्थुः । तिष्ठन्ति । लोकत्रयमेव दर्शयति । गुहा गुहायां स्वात्मनि द्वे द्यौश्चान्तरिक्षं चेत्येते निहिते । न दृश्येते । एका भूमिर्दर्शि । सर्वभूताधारतया दृश्यते ॥ भारान् । डुभृञ् धारणपोषणयोरित्यसा दधिकरणे घञ् । कर्षात्वतो घञ् इत्यन्तोदात्तत्वम् । निहिते । दधातेः कर्मणि निष्ठा । गतिरनन्त इति गतेः प्रकृतिस्वरत्वम् । दर्शि । दृशिर् प्रेक्षणे । कर्मणि लुङि चिणि चिणो लुगिति प्रत्ययस्य लुक् । वाक्यभेदादनिघातः ॥ २ ॥