श्रवणम्

3.56.7
त्रिरा दि॒वः स᳚वि॒ता सो᳚षवीति॒ राजा᳚ना मि॒त्रावरु᳚णा सुपा॒णी ।
आप᳚श्चिदस्य॒ रोद᳚सी चिदु॒र्वी रत्नं᳚ भिक्षन्त सवि॒तुः स॒वाय᳚ ॥
▶ पदपाठः (Word-by-word)
त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒ष॒वी॒ति॒ । राजा᳚ना । मि॒त्रावरु᳚णा । सु॒पा॒णी इति᳚ सु॒॑पा॒णी ।
आपः᳚ । चि॒त् । अ॒स्य॒ । रोद᳚सी॒ इति᳚ । चि॒त् । उ॒र्वी इति᳚ । रत्न᳚म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता देवो दिवो दिवसस्य त्रिस्त्रिषु कालेष्वा सोषवीति । अस्मभ्यं धनान्यासुवतु । प्रेरयतु । किञ्च राजाना राजानौ सुपाणी कल्याणपाणी मित्रावरुणावापः । आप्नोति सर्वं जगदित्याप अन्तरिक्षम् । नित्यबहुवचनान्तत्वाद्बहुवचनम् । चिदपि च उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यावेता देवताः सवितुः प्रेरकस्यास्य देवस्य सवाय सवेन प्रेरणेन रत्नमपेक्षितमर्थं भिक्षन्त । याचन्ते ॥ सोसवीति । षू प्रेरण इत्यस्य यङ्लुकि लटि रूपम् । मित्रावरुणा । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वम् । भिक्षन्त । भिक्ष यज्ञायामित्यस्य लङिरूपम् । सवाय । जवसवौ च । पा. ३-३-५६-४ ॥ इत्यजन्तत्वेन निपातनादन्तोदात्तत्वं ॥ ७ ॥