श्रवणम्

3.56.6
त्रिरा दि॒वः स᳚वित॒र्वार्या᳚णि दि॒वेदि᳚व॒ आ सु᳚व॒ त्रिर्नो॒ अह्न᳚ः ।
त्रि॒धातु᳚ रा॒य आ सु᳚वा॒ वसू᳚नि॒ भग᳚ त्रातर्धिषणे सा॒तये᳚ धाः ॥
▶ पदपाठः (Word-by-word)
त्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या᳚णि । दि॒वे॑दि᳚वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः᳚ ।
त्रि॒॑धातु᳚ । रा॒यः । आ । सु॒व॒ । वसू᳚नि । भग᳚ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवितः सर्वस्य प्रेरक हे आदित्य दिवो द्युलोकादागत्य त्वं वार्याणि अर्वैः संभजनीयानि धनानि दिवे दिवे प्रतिदिनं त्रिरा सुव । त्रिवारमस्मभ्यं प्रेरय । प्रयच्छेत्यर्थः । तदेवोच्यते । भग सर्वैर्भजनीय त्रातरस्माकं रक्षक हे आदित्य त्रिधातुत्रिधातूनि पशुकनकरत्नभेदेन त्रिप्रकाराणि वसूनि धनानि रायः । रान्ति क्षीरादीनीति रायो गोधनानि । तानि च नोऽस्मभ्यमह्नः सम्बन्धिशु त्रिस्त्रिषु सवनेष्वा सुव । प्रयच्छ । धिषणे माध्यमिके हे वाक् सातये धनलाभाय धाः । अस्मान् कुरु । त्रिः । द्वित्रिचतुर्भ्यः सुच् । पा. ५-४-१८ । इति सुच् । चित्स्वरः । सुव । षू प्रेरणे । तुदादिः । लोटि रूपम् । त्रिधातु । डुधाञ् धारणपोषणयोरित्यस्मात्सितनिगमिमसीत्यादिना तुन्प्रत्ययः । धिषणे । आमन्त्रितत्वान्निघातः ॥ ६ ॥