आप᳚श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज᳚न्ती॒ः परि᳚ षीमवृञ्जन् ॥
पदपाठः (Word-by-word)
आपः᳚ । चि॒त् । अ॒स्मै॒ । अ॒र॒म॒न्त॒ । दे॒वीः । पृथ᳚क् । व्रज᳚न्तीः । परि᳚ । सी॒म् । अ॒वृ॒ञ्ज॒न् ॥
सायणभाष्यम् (Sayana Commentary)
संवत्सर असामोषधीनामभीके समीपे पदवीः । पदानि तत्तद्वनविशिष्टपुष्पफलादीनि वेति प्रजनयतीति पदवीः सन् अबोधि । बुध्यते । सावधानो वर्तते । तथादित्यानाम् । आदित्या मासाः संख्यासाम्यात् । यद्वा । आदित्यसंक्रमणनिमित्तत्वादादित्या मासाः । मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रश्चैत्राद्यः स ज्ञेय इति स्मृतेः । तेषां चैत्रादीनां मासानां चारु नाम मधुश्च माधवश्चेत्यादि नामधेयमह्वे । आह्वयामि । उच्चारयामीत्यर्थः । किञ्च देवीर्द्योर्तनशीलाः पृथतितस्ततो व्रजन्तीर्गच्छन्त्य आपश्चित् आपोऽप्यस्मै संवत्सरायारमन्त । संवत्सरसंबन्धिमासचतुष्टये वृष्टिद्वारा रमन्ते । ता आपः सीमेनं संवत्सरं पर्यवृंजन् । अष्टसु मासेषु परिवर्जयन्ति ॥ पदवीः । वी गत्यादिषु । क्विप् । अबोधि । बुध अवगमन इत्यस्य लुङि दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्यामिति कर्तरि चिणो लुक् । निघातः । आदित्यानाम् । आदित्यसंबन्धिन इत्यर्थे दित्यदित्यादित्यपत्युत्तरपदाण्ण्य इति ण्य़ः । अतोलोपयलोपौ । प्रत्ययस्वरः । आह्वे । ह्वयतेर्लुङि सिच आत्मनेपदेष्वन्यतरस्यामित्यङादेशः । गुणः । निघातः । अवृञ्जन् । वृजी वर्जन इत्यस्य लङि श्नमि रूपम् । निघातः ॥ ४ ॥