श्रवणम्

3.52.4 समानपद
पु॒रो॒ळाशं᳚ सनश्रुत प्रातःसा॒वे जु᳚षस्व नः ।
इन्द्र॒ क्रतु॒र्हि ते᳚ बृ॒हन् ॥
▶ पदपाठः (Word-by-word)
पु॒रो॒ळाश᳚म् । स॒न॒॑श्रु॒त॒ । प्रा॒तः॒॑सा॒वे । जु॒ष॒स्व॒ । नः॒ ।
इन्द्र᳚ । क्रतुः᳚ । हि । ते॒ । बृ॒हन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सनश्रुत पुराणतया प्रसिद्ध हे इन्द्र नोऽस्मत्सम्बन्धिनमिमः पुरोडाशं प्रातस्सावे । सूयतेऽत्र सोम इति सावः । तस्मिन् प्रातः सवने जुषस्व । यतस्ते पा तव क्रतुः क्रम बृहन् महद्धि । प्रातःसावे । षुञ् अभिषवे । कर्मणि घञ् । प्रादिसमासः । थाथादिस्वरेणान्तोदात्तः ॥ ४ ॥